________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४
हयग्रीवविद्या कुरु कुरु मा विलम्ब । हयग्रीवाय फट् वज्रखुराय फट् वज्रदंष्ट्राय फट वज्रदंष्टोत्कटभयभैरवाय फट। परविद्यासंभक्षणाय फट् । परमन्त्रविनाशकाय फट्। सर्वग्रहोत्सादकाय फट्। सर्वविषघातकाय फट । सर्वग्रहेष्वप्रतिहताय फट । वडवामुखाय फट। सर्वग्रहपिशाचान् मे वशमानय। यावन्तो मम [ये केचित् अहितैषिणस्तान सर्वान् वडवामुखेन निकृन्तय फट । नमो नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय । सिध्यन्तु मम मंत्रपदा हयग्रीवो भगवान् आज्ञा[प]यति स्वाहा । __ अयं हयग्रीवविद्या राजा पठितसिद्धः' उपचारः आत्मरक्षाजापेन पररक्षा पंचरंगीसूत्रम् एकविंशतिग्रन्थयः कृत्वा बन्धितव्यम् । यावजीवं रक्षा कृता भवति । डाइनीग्रहगृहीतस्य प्रतिकृतिं कृत्वा पिण्डशस्त्रेण छेत्तव्या। सर्वपरकृता मंत्राश्छिन्ना भवन्ति सर्वशत्रवस्तम्भनं मनसा व्यवहारे ख[-]खम् मुखे कृत्वा विद्या जप्तया उत्तरायति। स्पृष्टावेशने[७] स्नातं शुचिवस्त्रप्रावृतं शुचौ प्रदेशे सुमनसा [संबद्धा आवेशये शुक्लवलिय॑थालंभेन। चन्द्रग्रहे सूर्यग्रहे घृतं ताम्रभाजने कृत्वा तावज्जेपद्यावच्चन्द्रो मुक्तो भवति तं घृतं पिवे मेधावी भवति एकेनोद्देशेन श्लोकशतमुद्गृह्णाति। पद्मां जुहे 'घृतमक्षयं भवति । अथ साधितुमिच्छेत् । चन्दनमयं लोकेश्वरप्रतिमा कर्तव्या । दक्षिणेनार्यवज्रधरः। वामेनार्यावलोकितेश्वरः
1 It may be read as आज्ञापितः
2
Ms. घत
For Private and Personal Use Only