________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घण्टाकर्ण प्रतिष्ठाविधिः
लघुम्नात्रविधिः
-CocceDeparacterrecemen.9
कर्पूरागरुसिल्हचन्दनबलामांसीशशैलेयक-श्रीवासद्मधूपराळघुसणैरत्यन्तमामोदितः । व्योमस्थः प्रसरच्छशांककिरणज्योतिः प्रतिच्छादको, धूमो धूपकृतो जगत्त्रयगुरोः सौभाग्यमुत्तंसतु ॥१॥
(शार्दूल०) सिद्धाचार्यपभृतीन पंचगुरून् सर्वदेवगणमधिकम् । क्षेत्रे काले धूपः प्रीणयतु जिनार्चनारचितः ॥२॥ (आर्या) इति धूपोत्क्षेपः । शक्रस्तवपाश्च । पुनः पुष्पाञ्जलिं गृहीत्वा वसन्ततिलकोपजाती पठेत्
जन्मन्यनन्तसुखदे भुवनेश्वरस्य, सुत्रामभिः कनकशैलशिर शिलायाम् । स्नात्रं व्यधायि विविधाम्बुधिकूपवापी-कासारपल्बलसरित्सलिलैः सुगन्धैः ॥१॥ तां बुद्धिमाधाय हृदीह काले, स्नानं जिनेन्द्रप्रतिमागणस्य ।
कुर्वन्ति लोकाः शुभभावभाजो, महाजनो येन गतः स पन्थाः ॥२॥ इति पुष्पाअलिक्षेपः । ततः पुष्पसमूहं गृहीत्वा वृतम्
परिमलगुणसारसद्गुणाढ्या, बहुसंसक्तपरिस्फुरद्विरेफा ।
बहुविधबहुवर्ण पुष्पमाला, वपुषि जिनस्य भवत्वमोघयोगा ॥१॥ अनेन वृत्तेनापादान्तशिरोऽन्तं जिनप्रतिमायां पुष्पारोपणम् । पूर्ववृत्तेन (कपूर०) धूपोत्क्षेपः । शकस्तवपाठश्च । ततः पुष्पाञ्जलिं करे गृहीखा शार्दूलोपजाती पठेत्
॥ १६॥
For Private and Personal Use Only