SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir कत्वेनापि क्षत्रियोऽवश्यं कर्म कुर्यादित्याह लोकेति लोकानां स्त्रे स्वे धर्म प्रवर्तनमुन्मार्गानिवर्तनं च लोकसंग्रहस्तं पश्यन्नपि शद्वाज्जनकादिशिष्टाचारमपि पश्यन्कर्म कर्तुमर्हस्येवेत्यन्वयः क्षत्रियजन्मप्रापकेण कर्मणाऽऽरब्धशरीरस्त्वं विद्वानपि जनकादिवत्प्रारब्धकर्मवलेन लोकसंग्रहार्थ कर्म कर्नु योग्योभवसि न तु त्यक्तुं ब्राह्मणजन्मालाभादित्यभिप्रायः एतादृशभगवदभिप्रायविदा भगवता भाष्यकृता ब्राह्मण स्यैव संन्यासोनान्यस्येति नितिं वार्तिककृता तु पौटिवादमात्रेणक्षत्रियवैश्ययोरपि संन्यासोस्तीत्युक्तमिति द्रष्टव्यम् // 20 // ननु मया कर्मणि क्रियमाणेपि लोकः किमिति तत्संगृहीयादित्याशङ्कच श्रेष्ठाचारानुविधायित्वादित्याह श्रेष्ठः प्रधानभूतोराजादियद्यत्कर्माचरति शुभमशुभंवा तत्तदेवाचरतीतरः प्राकृतस्तदनुगतोजनः नत्वन्यत्स्वातन्त्र्येणेत्यर्थः ननु शास्त्रमवलोक्याशास्त्रीय श्रेष्ठाचारं परित्यज्य शास्त्रीयमेव यद्यदाचरति श्रेष्ठस्तत्तदेवेतरोजनः // सयत्प्रमाणं कुरुते लोकस्तदनुवर्तते // 21 // न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन // नानवाप्तमवाप्तव्यं वर्तएव च कर्मणि // 22 // यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः॥मम वानुवर्तन्ते मनुष्याः पार्थ सर्वशः॥२३॥ कुतो नाचरति लोकइत्याशयाचारवत्पतिपत्तावपि श्रेष्टानुसारितामितरस्य दर्शयति सयदिति सश्रेष्ठोयल्लौकिकं वैदिकं वा प्रमाणं कुरते प्रमाणत्वेन मन्यते तदेव लोकोप्यनुवर्तते प्रमाणं कुरुते न तु स्वातन्त्र्येण किंचिदित्यर्थः तथा च प्रधानभूतेन त्वया राज्ञा लोकसंरक्षणार्थं कर्म कर्तव्यमेव प्रधानानुयायिनोजनव्यवहाराभवन्तीति न्यायादित्यभिप्रायः // 22 // अत्र चाहमेव दृष्टान्तइत्याह त्रिभिः हेपार्थ मे.मम विष्वपि लोकेषु किमपि कर्तव्यं नास्ति यतोऽनवाप्नं फलं किञ्चिन्ममावाप्तव्यं नास्ति तथापि वर्तएव कर्मण्यहं कर्म करोम्यवेत्यर्थः पार्थेति सम्बोधयन् विशुद्धक्षत्रियवंशोद्भवस्त्वं शूरापत्यापत्यत्वेन चात्यन्तं मत्समोहमिव वार्तनुमर्हसीति दर्शयति / / 22 // लोकसंग्रहोपि न ते कर्तव्योविफलत्वादित्याशड्याह यदि पनरहमतन्द्रितोनलसः सन् कर्मणि जातु कदाचिन्नवर्तेयं मानुतिष्ठेयं कर्माणि तदा मम / श्रेष्ठस्य सतोवर्ल्स मार्ग हेपार्थ मनुष्याः कर्माधिकारिणः सन्तः अनुवर्तन्ते अनुवर्तेरन् सर्वशः सर्वप्रकारैः // 23 // For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy