________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir 5755054505 प्रशस्ततरेयं महाप्रयोजना विद्येति स्तूयते अर्जुनापदेशेन चोपदेशाधिकारी दर्शिनः तथा च व्याख्यास्यते स्वधर्मप्रवृत्तौ / जातायामपि तत्पच्युतिहेतुभूतौ शोकमोही कथं भीष्ममहं संख्ये इत्यादिनार्जुनेन दर्शितौ अर्जुनस्य युद्धाख्ये स्वधर्म विनापि विवेकं किनिमित्ता प्रवृत्तिरिति दृष्ट्वा तु पाण्डवानीकमित्यादिना परसैन्यचेष्टितं तनिमित्तमुक्तम् तदुपोद्घातत्वेन धृतराष्ट्रप्रश्नः संजयंप्रति धर्मक्षेत्रइत्यादिना श्लोकेन तत्र धृतराष्ट्रउवाचेति वैशम्पायनवाक्यं जनमेजयंप्रति पाण्डवानां जयकारणं बहुविधं पूर्वमाकर्ण्य स्वपुत्रराज्यभ्रंशाद्रीतोधृतराष्ट्रः पप्रच्छ स्वपुत्रजयकारणमाशंसन् पूर्व युयुत्सवोयोडुमिच्छयोपि सन्तः कुरुक्षेत्रे समवेताः सङ्गताः मामकाः मदीयाः दुर्योधनादयः पाण्डवाश्च युधिष्ठिरादयः किमकुर्वत किंकृतवन्तः किं पूर्वाभृतयुयुत्सानुसारेण युद्धमेव कृतवन्तः उत केनविनिमित्तेन युयुत्सानिवृत्त्यान्यदेव किञ्चित्कृतवन्तः भीष्मार्जुनादिवीरपुरुषनिमित्तं दृष्टभयं युयुत्सानिवृत्तिकारणं प्रसिद्धमेव // धृतराष्ट्रउवाच // धर्मक्षेत्रे कुरुक्षेत्रे समवेतायुयुत्सवः // मामकाः पाण्डवाश्चैव किमकु वंत संजय // 1 // अदृष्टभयमपि दर्शवितुमाह धर्मक्षेत्रहति धर्मस्य पूर्वमविद्यमानस्योशनद्यमानस्य च वृद्धेनिमित्तं सस्यस्येवक्षेत्र यत्कुरुक्षेत्र सर्वश्रुतिस्मृतिप्रसिद्ध बृहस्पतिरुवाच याज्ञवल्क्यं यदनुकुरुक्षेत्र देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनमिति जाबालश्रुतेः कुरुक्षेत्रवै देवयजनमिति शतपथभुतेश्च तस्मिन् गताः पाण्डवाः पूर्वमेव धार्मिकाः यदि पक्षद्वयाहिंसानिमित्तादधर्माद्रीतानिवर्तेरस्ततः प्रामराज्या एव मत्पुत्राः अथवा धर्मक्षेत्रमाहात्म्येन पापानामपि मत्पुत्राणां कदाचिचित्तप्रसादः स्यात्नदा च तेऽनुतप्ताः प्राकपटोपात्तं राज्यं पाण्डवेभ्योयदि दास्ताह विनापि युद्ध हताएवेति स्वपुत्रराज्यलाभे पाण्डवराज्यालाभे च दृढतरमुपायमपश्यतोमहानु गएव प्रश्रबीजम् संजयेति च सम्बोधनं रागदेवादिदोषान् सम्याग्जितवानसीतिकृत्वा निजिभेव कथनीय वयेतिसूचनार्थम् मामकाः किमकुर्वतेत्येताव नैव प्रश्रनिर्वाहे पाग्याचति पृथििर्दशन्पाण्डवेषु ममकाराभावप्रदर्शनेन तवोहमभिव्यनक्ति // 1 // 2 5152515ENERARMS 5 16655 16152515 For Private and Personal Use Only