________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 24 // आधोज्ञाता कुशलानुशिष्टइति श्रुतेश्च एवं श्रवणश्रोतव्ययोराधर्यत्वं प्राग्वव्याख्येयं ननु यः श्रवणमननादिकं करोति सः आत्मानं वेदेति शाकिमाश्चर्यमतआह नचैव कधिदिति चकारः क्रियाकर्मपदयोरनुषङ्गनर्थः कधिदेनं नैव बेद श्रवणादिकं कुर्वन्नपि तदकुर्वस्तु नवेदेति किमु व|क्तव्य ऐहिकमप्रस्नुनपतिबन्धेन तदर्शनादिति न्यायान् उक्तं च वात्तिककारैः 'कुस्तज्ञानमिति चेताद्ध बन्धपरिक्षयात् असावपि च भूतोवा भारी वा वर्तते थपेति। अषणादि कुर्वतामपि प्रतिवन्धपरिक्षयादेव ज्ञानं जायते अन्यथा तु न सच प्रतिबन्धपरिक्षयः कस्यचिद्रतएव यथा हिरण्यगर्भस्य यस्यचिद्भावी यथा वामदेवस्य कस्यचिर्तते / यथा श्वेतकेतोः तथा |च प्रतिवन्धक्षयस्यातिदुर्लभवात् ज्ञान मुत्सद्यते पुंसां क्षयासापस्य कर्मणइति स्मृतेश्च दुर्विज्ञेयोऽयमात्मेति निर्गलितोर्यः यदि तुश्रुत्वाप्येनं वेद न चैवकविदित्येवव्याख्यायेत तदा आर्योज्ञाता कुशलानुशिष्टइति श्रुत्यैकवाक्यता न स्यात् यततामपि सिद्धानां कचिन्मां वेत्ति तत्त्वतइति भगवचनविरोधशेति विद्भिरविनयः क्षन्तव्यः अथ मा नचैव कश्चिदित्यस्य सर्वत्र संबन्धः कश्चिदेनं न पश्यति न वदति न शृगोति श्रुधापि न वेदेति पंञ्वप्रकाराउ काः कश्चितश्यस्येव न वदति कश्चित्पश्यति च वदति च कश्चित्त इचनं 525152515152515151551525152545:525 देही नित्यमवध्योयं देहे सर्वस्य भारतातस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि // 30 // शृणोति च तदर्थ जानाति च कश्चित्वापि न जानाति च कश्चित्तु सर्ववाहितहाते अविद्वपक्षे तु असंभावनाविपरीतभावनाभिभूतत्वादाश्चर्यतुल्यत्वं दर्शनवदनश्रवणेष्विति निगदव्याख्यातः लोकः चतुर्थपादे तु दृष्टोक्त्वा श्रुत्वापीति योजना॥ 22 // इदानी सर्वप्राणिसाधारगभ्रमनिवृत्तिसाधनमुक्तमुपसंहरति सर्वस्य प्राणिजातस्य देहे वध्यमानेप्यर्य देही लिङ्गदेहोपाधिरात्मा वध्योन भवतीति नित्यं नियतं यस्मात् तस्मात्सर्वाणि भूतानि स्थूलानि सूत्माणिच भीष्मादिभावापन्नान्युविश्य वं न शोचितुमर्हसि स्थूलदेहस्याशोच्यत्वमपरिहार्यत्वात् लिङ्गदेहस्याशोच्यत्वमात्मवदेवावध्यत्वादिति न स्थूलदेहस्य लिङ्गदेहस्यात्मनोवा शोच्यत्वं युक्तमितिभावः // 30 // तदेवं स्थलसूक्ष्मशरीरयतत्कारणाविद्याख्योपाधित्रयाविवेकेन मिथ्याभूतस्यापि संसारस्य सत्यत्वात्मधर्मत्वादिप्रतिभासरूपं सर्वप्राणिसाधारणमर्जुनस्य भ्रमं निराकर्तुमुपाधित्रयाववेकेनात्मस्वरूपमाभाहतवान् संप्रति युद्धाख्ये स्वधर्मे हिंसादिबाहुल्येनाधर्मत्वप्रतिभासरूपमर्जुनस्यैव // 24 // For Private and Personal Use Only