________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir - गी. न. कास्तएव चामीषामर्थाहति न्यायाविधिशब्दस्य लोके यत्र शक्तिरहीता बेदेपि तदर्थकैनैव तेन भवितव्यं लोके च प्रेषणादि पुरुषधर्मवाचित्वं कृप्तमिति वेदे शब्दभावनाबाचित्वं कथमुपपद्यते उच्यते लोकवेदयोरैकरूप्यमेव तथा हि लोके प्रेषणादिक 1न तेन तेन रूपेण विधिपदवाच्यं अननुगमेन नानार्यत्वप्रसङ्गात्तदेव भावनाबाचित्वोपपत्तेच किंतु प्रेषणाध्यषणानुज्ञास्वस्ति !! 186 // प्रवर्तनावमेकं तच्च शब्दव्यापारपि तुल्यमिति तदेव लिङादिपढवाच्यं तच्च लौकिकशदेनारत्वेव तत्र राजादीनामेव प्रवत-1 कत्वात् प्रवर्तकव्यापारएव हि प्रेषणात्वेन इत्यादिना न विधिपदवाच्यं किंतु प्रवर्तनालेन वाच्यं प्रवर्तनाप्रवर्तकत्वं च राजादेरिव वेदस्याप्यनुभवसिद्धं ननु वेदेपि प्रवर्तनावानीश्वरः कल्प्यतां लोके राजादिवत् तदुक्तं पिधिरेव तावदर्भइव श्रुतिकुमार्याः पुंयोगमानमिति न बेदरयापौरुषेयत्वात् नहि वेदस्य कर्ता पुरुषोलाके वेदे वा प्रसिद्धः तत्कल्पनेच तज्ज्ञानप्रामाण्यापेक्षया वेदप्रामाण्ये निरपेक्षस्वेन थिनं स्वतः प्रामाण्यं भग्नं स्यात् बुद्धवाक्येपि प्रामाण्यप्रसङ्गाच ईश्वरवचनवे समानेपि बुद्धवाक्यं न प्रमाणं वेदवाक्यं तु प्रमाणमिति सुभगाभिक्षुकन्यायप्रसङ्गः महाजनानामभयसिद्धत्वाभावेन तत्परिग्रहापरिग्रहाभ्यामपि विशेषानुपपत्तेः ईश्वरप्रेरणायालोकवेदसाधारणत्वेन लोकपि राजादीनां प्रेरकत्वं स्यात् ईश्वरप्रेरणायां स्थितायामेव राजादिरप्यसाधारणतया प्रेरकइति चेत् हन्त सातिष्ठतु नवा कि विहाप्यसाधारणः प्रेरकोवेदएव राजादिस्थानीयइत्यागतं मार्गे ईश्वरप्रेरणायाः साधारणायाअसाधारणप्रेरणासहकारेणैव प्रवर्तकत्वात् किञ्च ईश्वरप्रेरणायां सर्वोपि विहितं कुर्यादेव न तु कश्चिदाप लङ्येत् निषिद्धेपि चेश्वर | | प्रेरणास्त्येव अन्यथा न कोपि तत्र प्रवर्नेनेति तदपि विहितं स्यात् तथा चोक्तं 'अज्ञोजन्तुरनीशोयमात्मनः सुखदुःखयोः ईश्वरप्रेरितोगच्छेत्स्वर्ग वा श्वभ्रमेव वा' तस्माद्राजादिरिव वेदोपि स्त्रप्रवर्तनां ज्ञापयनिच्छोपहारमुखेन प्रवर्तयतीति सिद्धं लोकवेदयारकरूप्यं पूर्वमीमांस कानां स्वतन्त्रोवेदोब्रहा मीमांसकानां तु ब्रह्मविवर्तस्तत्परतन्त्रविदहति यद्यपि विशेषस्तथापि श्वसिततुल्यत्वेन वेदस्यापौरुषेयत्वमुभयेषामपि समान अत्र च प्रवृत्त्यनुकूलव्यापारवत्वं प्रवर्तनात्वं सखण्डोऽखण्डोवोपाधिस्तस्मिन् विधिपडशक्यपि तदाश्रयविशेषोपस्थितिर्गबादितुल्यैव अनुकृलव्यापारत्वं वा शक्यं प्रवृत्त्यं शस्त्वाख्यातत्वेन शक्यन्तरलभ्यैव दण्डीत्यत्र संबन्धिनि मतुबथै प्रकृत्यर्थ दण्डांशवन |फलसाधननाबोधएव प्रेरणा तामेव कुर्वन् प्रेरकोविधिरतः फलसाधननैव प्रेरणावेन विधिपदशम्येति मण्डनाचार्याः फलसाधनता चार्थभावनान्वयलभ्येत्युक्तं प्राक् इममेव च पक्षं पार्थसारथिप्रभृतयः पण्डिनाः प्रतिपनाः औपनिषामपि केषानिदिष्टसाधनतावादोनेनैव 15. 5 For Private and Personal Use Only