________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir कालायामर्थवादेःस्तुत्वेतीति कर्तव्यतांशपूरणं इयंगौः क्रय्येति लौकिके विधौ बहुक्षीरा जीवद्वत्सा सयपत्या समांसमीने न्यादिलौकिकार्थवादवत् समां समां प्रतिवर्ष प्रसूयते सागौः नन्वाख्यातत्वेन विधिशब्दादुपस्थिता पुरुषप्रवृत्तिर्भाव्यतयान्वेतु करणं तु कथमनुपस्थितमन्वेति उच्यते विधिशब्दस्तावच्छ्रवणेनोपस्थापितस्तस्य पुरुषप्रवृत्तिवाचकशक्तिरपि स्मरणेनोपस्थापिता तदुभयवैशिष्ट्यं तनिष्टाज्ञातताच मनसेति वाचक शक्तिमत्तयाज्ञाताविधिशब्दउपस्थितएव अनेन यच्छनुयात्तद्भावयेदिति प्रतिशब्दं स्वाध्यायविधितात्पर्याच्छन्दातिरिकेनोपस्थितमपि शाब्दबोधे भासतएव यथा ज्योतिष्टोमादि नामधेयं यथा वा लिगविनियोज्योमन्त्रः तदुक्तमाचार्यैरु दिदधिकरणे अनुपस्थितविशेषणाविशिष्टे बुद्धिर्न भवति न त्वनभिहितविशेषणेति एवमर्थवादानामुपस्थितिः श्रोत्रेण प्राशस्त्यस्य तु नैरेव लक्षणया तदुभयनिष्टज्ञाततायास्तु मनसेत्यर्थवादैः प्रशस्तत्वेन ज्ञात्वेतीति कर्तव्यतांशान्वयोप्युपपन्नएव ननु किं प्राशस्त्यं न तावत् |फलसाधनत्वं तस्य यागेन भापयेत् स्वर्गमित्यर्थभावनान्वयत्रशेनविधिवाक्यादेव लब्धत्वात् नान्यत् प्रवृत्तावनुपयोगात् उच्यते बलवदनिष्टाननबन्धित्वं प्राशस्त्यं तच नेटहेतुत्वज्ञानाल्लभ्यते इष्टहेतावपि कलजभक्षणादावनिष्टहेतत्त्वस्यापिदर्शनात् विहितश्येनफलस्य च शत्रुवधायानिष्टानुबन्धित्वं दृष्टं अतोयावत्साधनस्य फलस्य चानिष्टहेतुत्वं नोच्यते तावदिष्टहेतुत्वेन ज्ञातेपि तत्र पुरुषोन प्रवर्तते अतएवोक्तं 'फलतोपि च यत्कर्म नानर्थेनानुबध्यते केवलप्रीतिहेतुत्वात्तद्धर्मइति कथ्यतइति। अतः स्वतः फलतोवानर्थाननुबन्धित्वरूपप्राशस्त्यबोधनेनार्थवादविधिशक्तिमत्तम्भन्ति कउत्तम्भः स्वतः फलतोवार्थाननुबन्धित्वशङ्कायाः प्रवृत्तिप्रतिबन्धिकायाविगमः इदमेव च विधेः प्रवृत्तिजनने साहाय्यमर्थवादैः क्रियतइति विधिरर्थवादसाकाङ्कएवमर्थवादाअप्याभधया गोण्यावा वृत्त्या भूतमर्थ वदन्तोपि स्वाध्यायविध्यापादिनप्रयोजनवत्वलाभाय विधिसाकासाः सोऽयं नष्टाश्वदग्धरथवत्संप्रयोगः यथैकस्य दग्धस्य रथस्य जीवद्भिरश्वैरन्यस्य विद्यमानस्य रथस्याविद्यमानाश्वस्य संप्रयोगः परस्परस्यार्थवत्त्वाय तथार्थवादानां प्रयोजनांशोविधिना पूर्यते विधेच शब्दभावनायाइति कर्तव्यतांशीर्थवादैरिति तदिदमुभयोः श्रवणे पूर्णमेव वाक्यं एकस्य श्रवणे त्वन्यस्य कल्पनया पूरणीयं यथा वसन्ताय कपिजलानालभतइति विधावर्थवादांशोश्रुतोपि कल्प्यते प्रतितिष्ठन्ति हवायएतारात्रीरुपयन्तीत्याद्यर्थवादे विध्यशः तथा च सूत्रं विधिना वेकवाक्यत्वात् स्तुत्यर्थन विधीनां स्युरिति विधिना स्तुतिसाकाङ्केण प्रयोजनसाङ्क्षाणामर्थवादानामेकवाक्यत्वाविधीनां विधेयानां स्तुत्र्थेन स्तुतिप्रयोजनेन स्तुतिरूपेण प्रयोजनसाकाङ्केण लाक्षणिकेनार्थेन वानर्थक्याभावादर्थवादाधर्ने प्रमाणानि स्युरिति तस्यार्थः ननु यएच लौकिकाः शम्दास्तएव वैदि For Private and Personal Use Only