________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. live | वशाय रहारयोग्यत्वेन कल्पितमसत्यमपि सत्यतया स्वभिन्नमपि स्वाभिन्नतया पश्यन् धारयाते पोषयति चति देहभदबाधितकर्माधिकारहेतुदेहाभिमानस्तेन विवेकज्ञानशून्येन देहभृता कर्मप्रवृत्ति हेतुरागद्वेषपोष्फल्येन सततं कर्म प्रवर्तमानेन कर्माण्यशेषतः निःशेषेण त्यतुं हि यस्मान्न शक्यं न शक्यानि सत्यां कारणसामग्यां कार्यत्यागस्याशक्यत्वात् तस्मात् यस्त्वज्ञोऽ[धिकारी सत्त्वशुद्ध्यर्थ कर्माणि कुर्वन्नपि भगवदनुकम्पया तत्कालफलत्यागी तुशब्दस्तस्य दुर्लभत्वद्योतनार्थः सत्यागीत्यभिधीयते गोण्या वृत्या स्तुत्यर्थमत्याग्यपि सन् अशेषकर्मसंन्यासस्तु परमार्थदर्शित्वेनैव देहभृता शक्यते कर्तुमिति सएव मुख्यया वृत्त्या त्यागीत्यभिप्रायः / / 11 // ननुदेहभृतः परमात्मज्ञानशून्यस्य कर्मिणोपि कर्मफलाभिसन्धित्यागित्वेन गौणसंन्यासिनः परमात्मज्ञानवतोदेहाभिमानराहतस्य सर्वकर्मत्यागिनोमुख्यसंन्यासिनव कः फलेविशेषोयदलाभेन गौणत्वमेकस्य यल्लाभेन च मुख्यत्वमन्यस्य कर्मफलत्यागित्वं न हुयोरपि तुल्यमित्यन्योरिशेपोवाच्यः उच्यते अत्यागिनां कर्मफलत्यागित्वेऽपि कर्मानुष्टायिनामज्ञानां गौण न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः॥यस्तु कर्मफलत्यागी सत्यागीत्यभिधीयते॥११॥ संन्यासिनां प्रेत्य विविदिपापर्यन्तसत्त्वशुद्धेः प्रागेव मृतानां पूर्वकृतस्य कर्मणः फलं शरीरग्रहणं भवति मायामयं फल्गुतया लयमदर्शनं गच्छतीति निरुतेः कर्मणइति जात्यभिप्रायमेकवचनं एकस्य त्रिविधफलत्वानुपपत्तेः तच्च फलं कर्मणविविधत्वात् त्रिविधं पापस्यानिष्टं प्रतिकृलवेदनीयं नारकतिर्यगादिलक्षणं पुण्यस्य इष्टमनुकलवेदनीयं देवादिलक्षणं मिश्रस्यनु पापपुण्ययुगलस्य मिश्रमिष्टानिष्टसंयुक्तं मानुष्यलक्षणमित्येवं त्रिविधमित्यनुवादोहेयत्वार्थः एवं गौणसंन्यासिनां शरीरपातादूर्व शरीरान्तरमहणमावश्यकमित्युक्त्वा मुख्यसंन्यासिनां परमात्मसाक्षात्कारणाऽविद्यातत्कार्यनिवृत्तौ विदेहकैवल्यमेवेत्याह न तु संन्यासिनां परमात्मज्ञानवता मुख्यसंन्यासिनां परमहंस | परिव्राजकानां प्रेत्य कर्मणः फलं शरीरग्रहणमनिष्टमिष्टं मिश्रञ्च कनिशे काले बा न भवत्येवत्यवधारणार्थस्तु शब्दः ज्ञानेनाज्ञानस्योपछेदे तत्कार्याणां कर्मणामुछिन्नत्वात् तथा च श्रुतिः ‘भिद्यते त्दृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरइति' पारमर्ष च सूत्रम् ‘तदधिगमउत्तरपूर्वाधयोरलेपविनाशौ तद्यपदेशादिति। परमात्मजानादशेषकर्मक्षयं दर्शयति तेन // 181 For Private and Personal Use Only