SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir षव्याघ्र त्रिविधः संप्रकीर्तितइति प्रतिज्ञाय कर्मत्यागलक्षणे हे विधे दयित्वा प्रतिज्ञाननुरुपा कर्मानुष्ठानलक्षणां तृतीयां विधां दर्शयतीभगवतः प्रकटमकौशलमापतितं न हि भवति त्रयोब्राह्मणाभोजयितव्याः द्वौ कउकौंडिन्यौ तृतीयः क्षत्रियइति तद्वदिति परास्तं तिसृणामपि विधानां विशिष्टाभावरूपेण त्यागसामान्यनैकजातीयतया प्राग्व्याख्यानत्वात् तस्माद्भगवदकौशलोद्भावनमेव महदकोशलमिति द्रष्टव्यम् // 9 // सात्विकस्य त्यागस्यादानाय सत्त्वशुद्धिद्वारेण ज्ञाननिष्टां फलमाह यस्त्यागी सात्त्विकेन त्यागेन युक्तः पूर्वो-| क्तेन प्रकारेण कर्तृत्वाभिनिवेश फलाभिसन्धि च त्यक्त्वान्तःकरणशुद्धयर्थं विहितकर्मानुष्टायी सयदा सत्त्वसमाविष्टः सत्त्वेनात्मानात्मविवेकज्ञानहेतुना वित्तगतेनातिशयेन सम्यग्ज्ञानप्रतिबन्धकरजस्तमोमलराहित्येनासमन्तात् फलाव्यभिचारेणाविष्टोव्याप्तोभवति भगवदर्पितनित्यकर्मानुष्ठानात पापमलापकर्षलक्षणेन ज्ञानोत्पत्तियोग्यतारूपपुण्यगणाधानलक्षणेन च संस्कारेण संस्कृतमन्तःकरणं यदा भवतीत्यर्थः तदा मेधावी शमदमसर्वकर्मोपरमगुरूपसदनादिसामवायिकाङ्गयुक्तेन मनननिदिध्यासनाख्यफलोपकार्यङ्गयुक्तेन न देष्ट्यकुशलं कर्म कुशलेनानुषज्जते // त्यागी सत्त्वसमाविष्टोमेधावी छिन्नसंशयः॥१०॥ 8888888总尺尔於尔尽的长保你尔 |च अवणाख्यवेदान्तवाक्यविचारेण परिनिष्पन्नं वेदान्तमहावाक्यकरणकं निरस्तसमस्ताप्रामाण्याशङ्क चिदन्याविषयकमह - यास्मीति ब्रह्मात्मैक्यज्ञानमेव मेधा तया नित्ययुक्तोमेधावी स्थितप्रज्ञोभवति तदा छिन्नसंशयः अहं ब्रह्मास्मीति विद्यारूपया मेधया तदविद्योच्छेदे तन्कार्यसंशयविपर्ययशून्योभवति तदा क्षीणकर्मत्वात् न देट्यकुशलं कर्म अशोभनं काम्यं निषिद्धं वा कर्म न प्रतिकूलतया मन्यते कुशले शोभने नित्ये कर्मणि नानुषज्जने न प्रीतिं करोति कर्तृत्वाद्यभिमानरहितत्वेन कृतकृत्यवात् तथा च श्रुतिः 'भिद्यते दृदयपन्थिश्छिन्द्यते सर्वसंशयाः क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरहति / यस्मादेवं सात्त्विकस्य त्यागस्य फलं तस्मान्महतापि यत्नेन सएवोपादेयइत्यर्थः // 10 // तदेवमात्मज्ञानवतः सर्वकर्मत्यागः संभाव्यते कर्मप्रवृत्तिहेत्योरागद्वेषयोरभावादित्युक्तं संप्रत्यज्ञस्य कर्मत्यागासंभवे हेतुरुच्यते मनुष्योऽहं ब्राह्मणोऽहं गृहस्थोऽहमित्याद्यभिमाननाबाधितेन देहं कर्माधिकारहेतुवर्णाश्रमाविरूपं कर्तभोक्तृत्वाद्याश्रय स्थलसूक्ष्मशरीरोरिन्द्रयसवातं विभाति अनाद्यविद्यावासना For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy