________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir सुखदुःखे तु न कदापि विपर्ययेतेइति पृथनिर्देशः तथा चात्यन्तास्थिरात् त्वदिन्नस्य विकाारणः मुखदुःखादिप्रदान्भीप्मादिसंयोगवियोगरूपान्मात्रास्पर्शान् त्वं तितिक्षस्व नैते मम किंचित्कराइति विवेकेनोपेक्षस्त्र दुःखितादात्म्याध्यासेनात्मानं दुखिनं माज्ञासीरित्यर्थः कौन्तेय भारतेति सम्बोधनद्वयनोभयकुलविशुद्धस्य तवाज्ञानमनुचितमिति सूचयति // 14 // नन्वन्तः करणस्य सुखदुःखाद्याश्रयत्वे तस्यैव कर्तृत्वेन भोक्तृत्वेनच चेतनत्वमभ्युपेयं तथा च तद्व्यतिरिक्त तद्भासके भोक्तरि मानाभावान्नाममात्रे विवादास्यान् तदभ्युपगमे च बन्धमोक्षयो।यधिकरण्यापत्तिः अन्तःकरणस्य सुखदुःखाश्रयत्वेन बद्धृत्वान् आत्मनश्च तद्व्यतिरिक्तस्य मुक्तत्वादित्याशङ्कामर्जुनस्थापनेतुमाहभगवान् ये स्वप्रकाशत्वेन स्वतएव प्रसिद्धं अत्रायं पुरुषः स्वयंज्योतिर्भवतीति श्रुतेः पुरुषं पूर्णत्वेन पुरि शयानं सवा अयं पुरुषः सर्वातु पूर्षु पुरिशयोनैतेन किंचनानावृतं नैतेन किंचनासंवृतमिति श्रुतेः समदुःखसुखं समे दुःखसुखे अनात्मधर्मतया भास्यतयाच यस्य निर्विकारस्य स्वयंज्योतिषस्तं सुखदुःखपहणमशेषान्तःकरणपरिणामो 总的的的的的的的的长沙88885 यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ / समदुःख मुखं धीरं सोमृतत्वाय कल्पते // 15 // पलक्षणार्थं एषनित्योमहिमा ब्राह्मणस्य न कर्मणा वर्धते नोकनीयानिति श्रुत्या वृद्धिकनीयस्तारूपयोः सुखदुःखयोः प्रतिषेधान् धीरं धियमीरयतीति व्युत्पत्त्या चिदाभासद्वारा धीतात्म्याध्यासेन धीप्रेरकं धीसाक्षिणमित्यर्थः सधीरस्वमोभूत्वमं लोकमतिक्रामतीति श्रुते: एतेन बन्धप्रसक्तिर्शिता तदुक्तं यतोमानानि सिध्यन्ति जायदादित्रयं तथा भावाभावविभागश्च सब्रह्मास्मीतिबोध्यतइति एते सुखदुःख दामात्रास्पर्शाः हि यस्मात् न व्यथयान्ति परमार्थतोन विकुन्ति सविकारभासकत्वेन विकारायोग्यत्वात् सूर्योयथा सर्वलोकस्य चक्षुर्न लिप्य ते चाक्षुषैर्बाधदोषैः एकस्तथा सर्वभूतान्तरात्मा नलिप्यते लोकदुःखेन बाधइति श्रुतेः अतः सपुरुषः स्वस्वरूपभूतब्रह्मात्मैक्यज्ञानेन सर्व दुःखोपादानतदज्ञाननिवृत्त्युपलक्षिताय निखिलद्वैतानुपरक्तस्वप्रकाशपरमानन्दरूपाय अमृतत्वाय मोक्षाय कल्पते योग्योभवतीत्यर्थः यदि खात्मा स्वाभाविकबन्धाश्रयः स्यात्तदा स्वाभाविकधर्माणां धर्मनिवृत्तिमन्तरेणानिवृत्तेर्न कदापि मुच्यत तथाचाक्तं आत्मा कादिरूपश्चन्मा कावीस्तर्हि मुक्ततां न हि स्वभावोभावानां व्यावनौष्ण्यववेरिति प्रागभावासहवृत्तेर्युगपत्सर्वविशेषगुणनिवृत्तेमिनिवृत्तिर्नान्तरीयकत्व For Private and Personal Use Only