________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीकृष्णाय गीतामृतदुहे नमः / पूर्वाध्याये भगवता संसारबन्धहेतून् गुणान् व्याख्याय तेषामत्ययेन ब्रह्मभावोमोक्षोमद्भजनेन लभ्यत इत्युक्तं 'मांच योव्याभिचारेण भक्तियोगेन सेवते सगुणान्समतीत्यैतान् ब्रह्म भूयाय कल्पतइति / तत्र मनुष्यस्य तव भक्तियोगेन कथं ब्रह्मभावइल्याकाङ्क्षायां स्वस्य ब्रह्मरूपताज्ञापनाय सूत्रभूतोयं श्लोकोभगवतोक्तः 'ब्रह्मणोहि प्रतिष्टाहममृतस्याव्ययस्य च शाश्वतस्य च धर्मस्य | सुखस्यैकान्तिकस्य / चेति अस्य सूत्रस्य वृत्तिस्थानीयोयं पञ्चदशोध्यायआरभ्यते भगवतः श्रीकृष्णस्य हि तत्त्वं ज्ञात्वा तत्प्रेमभजनेन गुणातीतः सन् ब्रह्मभावं कथमाप्नुयालोकइति तत्र ब्रह्मणोहि प्रतिष्टाहमित्यादिभगवचनमाकर्ण्य मम तुल्योमनुष्योयं कथमेवं वदतीति विस्मयाविटमप्रतिमया लज्जया च किञ्चिदपि प्रष्टुमशनुवन्तमर्जुनमालस्य कृपया स्वस्वरूपं विवक्षुः तत्र विरक्तस्यैव संसाराद्भगवत्तवज्ञानेऽधिकारोनान्यथेति पूर्वाध्यायोक्तं परमेश्वराधीनप्रकृतिपुरुषसंयोगकार्य संसारं वक्षरूपकल्पनया वर्णयति वैराग्याय प्रस्तुतगुणातीतत्वोपायत्वात्तस्य ऊर्ध्वमुत्कृष्ट कारणं स्वप्रकाशपरमानन्दरूपत्वेन नित्यत्वेन च ब्रह्म अथवा ऊवं सर्वं संसारबाधप्यबाधितं सर्वसंसारभ्रमाधिष्टानं ब्रह्म तदेव मायया मूलमस्येत्यर्थ मल अधइत्यर्वाचीनाः कार्योपाधयोहिरण्यगर्भायागृह्यन्ते ते नानादिक्मस्तत्वाच्छाखाइव शाखाअस्येत्यधःशाखं आशु विनाशित्वेन न श्वोऽपिस्थातेति विश्वासानहमश्वत्थं मायामयं संसारवृक्षमव्ययमनाद्यनन्तदेहादिसन्तानाअयमात्मज्ञानमन्तरेणानुच्छेद्यमनन्तमव्ययमाहुः श्रुतयः स्मृतयश्च श्रुतयस्तावदूर्ध्वमूलोक्शिाखएषोश्वत्थः सनातनइत्याद्याः' कउबल्लीषु पठिताः अर्वाञ्चोनिकृष्टाः कार्योपाधयोमहदहकारतन्मात्रादयोवा शाखाअस्येत्यवाक्शाखइत्यधःशाखपदसमानार्थ सनातनइत्यव्ययपदसमानार्थ स्मतयश्च 'अव्यक्तमलप्रभवस्तस्यैवानुग्रहोत्थितः बुद्धिस्कन्धमयश्चैव इन्द्रियान्तरकोटरः महाभूतविशाखच विषयैः पत्रवांस्तथा धर्माधर्मसुपुष्पश्च सुखदुःखफलोदयः आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः एतत् ब्रह्मवनं चैव ब्रह्माचरति साक्षिवत् एतच्छित्वा च भित्त्वाच ज्ञानेन परमासिना ततश्चात्मगतिं प्राप्य तस्मानावर्तते पुनरित्यादयः' अव्यक्तमव्याकृतं मायोपाधिकं ब्रह्म तदेव मूलं कारणं तस्मात्प्रभवोयस्य सतथा तस्यैव मूलस्याव्यक्तस्यानुग्रहादतिदृढत्वादुत्थितः संवर्धितः वृक्षस्य हि शाखाः स्कन्धादुदवन्ति संसारस्य च बुद्धेः सकाशानानाविधाः परिणामाभवन्ति तेन साधम्र्येण बुद्धिरेव स्कन्धस्तन्मयस्तत्प्रचुरोयं इन्द्रियाणामन्तराणि छिद्राण्येव कोटराणि यस्य सतथा महान्ति भूतान्याकाशादीनि पृथिव्यन्तानि विविधाः शाखा For Private and Personal Use Only