________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीकृष्णाय गीतामृतदहे नमः॥ पूर्वाध्याये यावत्संजायते किंचित्सत्त्वं स्थावरजङ्गम क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धीत्युक्तं तत्र निरीश्वर| साझायनिराकरणेन क्षेत्रक्षेत्रज्ञसंयोगस्येश्वराधीनत्वं वक्तव्यं एवं कारणं गुणसङ्गस्य सदसद्योनिजन्मस्वित्युक्तं तत्र कस्मिन् गुणे कथं | सङ्गः केवा गुणाः कथं वा ते बनन्तीति वक्तव्यं तथा भूतपकृतिमोक्षं च ये विदुन्ति ते परामित्युक्तं तत्र भूतप्रकृतिशब्दितेभ्यो| गणेभ्यः कथं मोक्षणं स्यान्मुक्तस्य च किं लक्षणामति वक्तव्यं तदेतत्सर्वं विस्तरेण वक्तुं चतुर्दशोध्यायआरभ्यते तत्र वक्ष्यमाणमर्थं द्वाभ्यां स्तुवन् श्रोतृणां रुच्युत्पत्तये ज्ञायतेऽनेनेति ज्ञानं परमात्मज्ञानसाधनं परं श्रेष्ठं परवस्तुविषयत्वात् कीदृशं तत् ज्ञानानां ज्ञान| साधनानां बहिरङ्गानां यज्ञादीनां मध्ये उत्तम उत्तमफलत्वात् नत्वमानित्वादीनां तेषामन्तरङ्गत्वेनोत्तमफलत्वात् परामित्यननोत्कृष्ट // श्रीभगवानुवाच // परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् // यज्ज्ञात्वा मुनयः सर्वे परां सिहिमितोगताः // 1 // इदं ज्ञानमपाश्रित्य ममसाधर्म्यमागताः // सर्गेपि नोपजायन्ते प्रलये न व्यथन्ति च // 2 // 52515251525152515515155162525 विषयत्वमुक्तं उत्तममित्यनेन तृत्कृष्टफलत्वामितिभेदः ईदृशं ज्ञानमहं प्रवक्ष्यामि भूयः पुनः पूर्वष्वध्यायष्वसकृदुक्तमपि यत् ज्ञानं ज्ञात्वाऽनुष्टाय मुनयः मननशीलाः संन्यासिनः सर्वे परां सिद्धि मोक्षाख्यां हतोदेह बन्धनादताः प्राप्ताः // 1 // तस्याः सिद्धेरैकान्तिकत्वं दर्शयति इदं यथोक्तं ज्ञानं ज्ञानसाधनमपाभिल्यानुष्टाय मम परमेश्वरस्य साधयं मद्रूपतामत्यन्ताभेदेनागताः प्राप्ताः सन्तः सर्गेपि हिरण्य| गर्भादिषत्पद्यमानेष्वपि नोपजायन्ते प्रलये ब्रह्मणोपि विनाशकाले न व्यथान्त च न व्यथन्ते न च लीयन्त इत्यर्थः // 2 // // तदेवं प्रशंसया श्रोतारमभिमुखीकन्य परमेश्वराधीनयोः प्रकृतिपुरुषयोः सर्वभूतोत्पातं प्रति हेतुत्वं नतु साझयसिद्धान्तवत् स्वतन्त्रयोरितीमं विवाक्षितनर्थमाह द्वाभ्यां सर्वकार्यापेक्षयाऽधिकत्वात्कारणं महत् सर्वकार्याणां वृद्धिहेतु For Private and Personal Use Only