SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 2525 अध्यारोपापवादाभ्यां निःप्रपञ्चं प्रपञ्च्यतइति' न्यायमनुसृत्य सर्वप्रपञ्चाध्यारोपेगानादिमत्सरं ब्रोति व्याख्या समधुना तदपवादेन नसतनासदुच्यतइति व्याख्यानमारभते निरुपाधिस्वरूपज्ञानाय परमार्थनःसर्वेन्द्रियविवर्जितं तन्माय पा सर्वेन्द्रियगुणाभासं सर्वेषां बहिःकरणानां श्रोत्रादीनामन्तःकर गयोच बुद्धिमनसोर्गुणैरभ्यवसायसङ्कल्पश्रवणवचनादिभिस्तत्तदिषयरूपतयाऽवभासतइव सर्वेन्द्रियव्यापारापृतमिव तज्ज्ञेयं ब्रह्म 'ध्यायतीव लेलायतीवेति' श्रुतेः अत्र ध्यानं बुद्धीन्द्रियव्यापारोपलक्षणं लेलायनं चलनं कर्मेन्द्रियव्यापारोपलक्षणार्थ तथा परमार्थतोऽसतं सर्वसंबन्धशून्यमेव मायया सर्वभृच्च सदात्मना सर्व कल्पितं धारयति पोषयतीति च सर्वभूत् निधिष्ठानभ्रमायोगात् तथा सन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् // असक्तं सर्वञ्चैव निर्गुणं गुणभोक्तृच॥ 14 // वहिरन्तश्च भूतानामचरं चरमेव च // सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् // 15 // ररररर152515251525252515 5251525152515251525152625 परमार्थतोनिर्गुणं सत्वरजस्तमोगुणरहितमेव गुणभोक्तच गुणानां सत्त्वरजस्तमसा शब्दादिद्वारा सुखदुःखमोहाकारेण परिणतानां भोक्न उपलब्धं च तज्ज्ञेयं ब्रह्मेत्यर्थः // 14 // भूतानां भवनधर्मणां सर्वेषां कार्याणां कल्पितानामकल्पितमधिष्टानमेकमेव बहिरन्तश्च रज्जुरिव स्त्रकाल्पतानां सर्पधारादीनां सर्वात्मना व्यापकमित्यर्थः अतएव अवरं स्थावरं चरं च जङ्गमं भूतजातं तदेव अधिष्ठानात्मकत्वान् कल्पिनानां न ततः किंचिव्यतिरिच्यतइत्यर्थः एवं सर्वात्मकवेपि सूक्ष्मवादूपादिहीनत्वात्तदविज्ञेयं इदमेवमिति स्पष्टज्ञानाह न भवति अतएवात्मज्ञानसाधनशुन्यानां वर्षसहस्रकोट्याप्यप्राप्यत्वात् दूरस्थं च योजनलक्षकोट्यन्तरितमिव तत् ज्ञानसाधनसंपन्नानांतु अन्तिके ||च तत् अत्यन्तव्यवहितमेव आत्मत्वात् दुरात् सुदूरे तदिहान्तिके च पश्यत्स्विहैव निहितं गुहायामित्यादि ' श्रुतिभ्यः।१५॥ For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy