________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir गी. म. // 19 // त्रापि धूमइति धूमाभिमानिनी देवता रात्रिरिति राज्यभिमानिनी कृष्णइति कृष्णपक्षाभिमानिनी षण्मासादक्षिणायनमिति दक्षिणायनाभिमानिनी लक्ष्यते एतदप्यन्यासां श्रुत्युक्तानामुपलक्षणं तथाहि श्रुतिः 'तेधूममभिसंभवन्ति धूमाद्रात्रि रात्रेरपर|पक्षमपरपक्षाद्यान् षड्दाक्षिणेति मासांस्तान्नैते संवत्सरमभिप्राप्नुवन्ति मासेभ्यः पितृलोक पितृलोकादाकाशमाकाशाच्चन्द्रमसमेषसोमोराजा तहेवानामन्नं तहेवाभक्षयन्ति तस्मिन् यावत्संपातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्त इति' सत्र धृमरात्रिकृष्णपक्षदक्षिणायन देवताइहोताः पितृलोकआकाशश्चन्द्र माइत्युक्ताअपिद्रष्टव्याः तत्र तस्मिन् पथि प्रयाताश्चान्द्रमसं ज्योतिः फलं योगी कर्मयोगीष्टापूर्त धूमोरात्रिस्तथा कृष्णः षण्मासादक्षिणायनम् // तत्र चान्द्रमसं ज्योतियोगी प्राप्यनिवर्तते // 25 // शुक्लकृष्णे गती लेते जगतः शाश्वते मते // एकया यात्यनावृत्तिमन्ययाऽ. वर्तते पुनः // 26 // नैते सृती पार्थ जानन् योगी मुह्यति कश्चन // तस्मात्सर्वेषु कालेपु योगयुक्तोभवार्जुन // 27 // दत्तकारी प्राप्य यावर्सपातमुषित्वा निवर्तते संपतत्यनेनेति संपातः कर्म तस्मादेतस्मादावृत्तिमार्गादनावृत्तिमार्गः श्रेयानित्यर्थः // 25 // उक्ती मार्गावुपसंहरति शुक्ला अर्चिरादिगतिः ज्ञानप्रकाशमयत्वात् कृष्णा धमादिगतिः ज्ञानहीनत्वेन तमोमयत्वात् ते एते शुक्ककृष्णे गती मार्गी हि प्रसिद्धे सगुणविद्याकर्माधिकारिणोः जगतः सर्वस्यापि शास्त्रज्ञस्य शाश्वते अनादी मते संसारस्थानादित्वात् तयोरेकया शुक्लया यात्यनावृत्ति कश्चित् अन्यया कृष्णया पुनरावर्तते सर्वोपि // 26 // गतरुपास्यत्वाय तविज्ञानं स्तौति एते सती मार्गों *हेपार्थ मानन् क्रममोक्षायैका पुनः संसारायापरेति निश्चिन्वन् योगी ध्याननिष्ठोन मुद्धति केवलं कर्म धमादिमार्गप्रापर्क कर्तव्यत्वेन न प्रत्येति कथन कचिदपि तस्माद्योगस्यापुनरावृत्तिफलत्वात्सर्वेषु कालेषु योगयुक्तः समाहितचिनोभवापुनरावृत्तये हेअर्जुन | // 27 // 1 // 109 // For Private and Personal Use Only