________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.७ // 10 // हे विवृणोति परं सर्वकारणरूपमध्ययं नित्यं मम भावं स्वरूपं सोपाधिकमजानन्तस्तथा निरुपाधिकमप्यनुत्तमं सर्वोत्कृष्टमनतिशयाहितीयपरमानन्दघनमनन्तं मम स्वरूपमजानन्तोजीवानुकारिकार्यदर्शनाज्जीवमेव कंचिन्मां मन्यन्ते ततोमामीश्वरत्वेनाभिमत विहाय प्रसिद्ध देवतान्तरमेव भजन्ते ततश्चान्तवदेव फलं प्रामुवन्तीत्यर्थः अग्रे च वक्ष्यते अवजानन्ति मां मूढामानुषीं तनुमाश्रितमिति // 24 // ननु जन्मकलिपि सर्वयोगिध्येयं श्रीवैकुण्ठस्थमैश्वरमेव रूपमावि विनवति संप्रति च श्रीवत्सकौस्तुभवनमालाकिरीटकुण्डलादिदिव्योपकरणशालिनि कम्बुकमलकौमोदकीचक्रवरधारिचतुर्भुजे श्रीमइनतेयवाहने निखिलमुरलोकसम्पादितराजराजेश्वराभिषेकादिमहावैभवे सर्वसुरासुरजेतरि विविधादिव्यलीलाविलासशीले सर्वावतारशिरोमणी साक्षावकुण्ठनायक निखिललोकदुःखविस्ताराय भुवमव अव्यक्त व्यक्तिमापन्नं मन्यन्ते मामवुद्धयः // परं भावमजानन्तोममाव्ययमनुत्तमम् // 24 // नाहं प्रकाशः सर्वस्य योगमायासमावृतः // मूढोयं नाभिजानाति लोकोमामजम. व्ययम् // 25 // तीर्ण विरिञ्चिप्रपञ्चासंभवि निरतिशयसौन्दर्यसारसर्वस्वमूर्ती बाललीलाविमोहितविधातरि तरणिकिरणोज्ज्वलदिष्यपीताम्बरे निरुपमश्यामसुन्दरे करदीकृतपारिजातार्थपराजितपुरन्दरे बाणयुद्धविजितशशाङ्कशखरे समस्तमुरासुरविजयीनरकप्रभृतिमहादतैयप्रकरपाणपर्यन्त सर्वस्वहारिणि श्रीदामादिपरमरमहावैभवकारिणि घोडशसहस्रदिव्यरूपधारिण्यपरिमेयगुणगरिमणि महामहिमान नारदमार्कण्डेयादिमहामुनिगणस्तुते त्वयि कथमविवेकिनोपि मनुष्यबुद्धिर्जीवबुद्धिवेत्यर्जुनाशङ्कामपनिनीषुराह भगवान् अहं सर्वस्व लोकस्य न प्रकाशः स्वेन रूपेण प्रकटोन भवामि किंतु केषांचिन्मङ्गक्तानामेव प्रकटोभवामीत्यभिप्रायः कथं सर्वस्य लोकस्य न प्रकटइत्यत्र हेतुमाह योगमायास|मावतः योगोमम सङ्कल्पस्तद्वशवर्तिनी माया योगमाया तयाऽयमभक्तोजनोमा स्वरूपेण न जानाति सङ्कल्पानुविधायिन्या मायया सम्यगावृतः सत्यपि ज्ञान कारणे ज्ञानविषयत्वायोग्यः कृतः अतोयदुक्तं परं भावमजानन्तइति तत्र मम सङ्कल्पएव कारणमित्युक्तं भवति अतोमम // 10 // For Private and Personal Use Only