________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.७ // 9 // 51515251525152515251523929 कोऽनेकजन्मकृतसुकृतसमासादितनित्यानित्यवस्तुविवेकः सन् यनति यतते सिद्धये सत्वशुद्धिद्वारा ज्ञानोत्पत्तये यततां यतमानानां ज्ञानाय सिद्धानां पार्जितसुकृतानां साधकानामपि मध्ये कधिदेकः श्रवणमनननिदिध्यासनपरिपाकान्ते मामीश्वरं वेत्ति साक्षात्करोति तत्त्वतः प्रत्यगभेदेन तत्त्वमसीत्यादिगुरूपदिष्टमहावाक्येभ्यः अनेकेषु मनुष्येधात्मज्ञानसाधनानुष्ठायी परमदुर्लभः साधनानुष्टायिप्वपि मध्ये फलभागी परमदुर्लभइति किं वक्तव्यमस्य ज्ञानस्य माहात्म्यामित्यभिप्रायः॥३॥ एवं प्ररोचनेन श्रोतारमभिमुखीकृत्यास्मनः सर्वात्मकत्वेन परिपूर्णत्वमवतारयन्नादावपरां प्रकृतिमुपन्यस्यति साइहि पञ्चतन्मात्राण्यहारोमहानव्यक्तमित्यष्टौ प्रकृतयः पञ्चमहाभूतानि पञ्चकर्मेन्द्रियाणि पञ्चज्ञानेन्द्रियाणि उभयसाधारण मनश्चेति षोडशविकाराउच्यन्ते एतान्येव चतुर्विंशतितत्त्वानि तत्र भूमिरापोऽनलोवायुः खमिति पृथिव्योजोवारयाकाशाख्यपञ्चमहाभूतसूक्ष्मावस्थारूपाणि गन्धरसरूपस्पर्शशब्दात्मकानि पञ्चमनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये॥ यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः॥३॥ || भूमिरापोऽनलोवायुः ख मनोवुद्धिरेव च // अहङ्कारइतीयं मे भिन्ना प्रकतिरष्टधा // 4 // | अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ॥जीवभूतां महावाहो ययेदं धार्यते जगत् // 5 // तन्मात्राणि लक्ष्यन्ते बुद्ध्यहङ्कारशब्दौ तु स्वार्थावेव मनःशब्देन च परिशिष्टमव्यक्तं लक्ष्यते प्रकृति शब्दसामानाधिकरण्येन स्वार्थहानेरावश्यकत्वात् मनःशब्देन वा स्वकारणमहङ्कारोलक्ष्यते पञ्चतन्मात्रसन्निकर्षात् बुद्धिशब्दस्त्वहङ्कारकारणे महत्तत्वे मुख्यवृत्तिरेव अहङ्कारशब्देन च सर्ववासनावासितमविद्यात्मकमव्यक्तं लक्ष्यते प्रवर्तकत्वाद्यसाधारणधर्मयोगाच इति उक्तप्रकारेण इ| यमपरोक्षा साक्षिभास्यत्वात् प्रकृतिर्मायाख्या पारमेश्वरी शक्तिरनिर्वचनीयस्वभावात्विगुणात्मिका अष्टधा भित्रा अष्टभिः प्रकारभैदमागता सर्वोपि जडवर्गोत्रैवान्तर्भवतीत्यर्थः स्वसिद्धान्ते च ईक्षणस हाल्पात्मकी मायापरिणामावेव बयहयरौ पञ्चतन्मत्राणि चापञ्चीकृतपञ्चमहाभूतानीत्यसकृदबोचाम // 4 // एवं क्षेत्रलक्षणायाः प्रकृतेरपरत्वं वदन् क्षेत्रज्ञलक्षणां परां प्रकृतिमाह या प्रागष्टधोक्ता प्रकृतिः सर्वा चेतनवर्गरूपा सेयमपरा निकृष्टा जइत्वात्परार्थत्वात्संसारबन्धरूपत्वाच // 9 // 6 For Private and Personal Use Only