________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir अ.६. तिरिभिसंभवन्तीत्यविशेषेण पञ्चानिविदामिवातकनूनां श्रद्धासत्यवतां मुमुक्षणामपि देवयानमार्गेण ब्रह्मलोकप्राप्तिकथनात् अवणादिपरायणस्य च योगभ्रष्टस्य श्रद्धान्वित्तोभवेत्यनेन श्रद्धायाः प्राप्नत्वात् शान्तोदान्तइत्यनेन चानृतभाषणरूपवाग्व्यापारनिरोधरूपस्य सत्यत्वलब्धत्वात् बहिरिन्द्रियाणा मुच्चालव्यापारनिरोधोहि दमः योगशास्त्रे चाहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहायमाइतियोगाङ्गत्वेनोक्तत्वात् यदितु सत्यशद्धेन ब्रह्मयोच्यते तदापि न क्षतिः वेदान्तश्रवणादेरपि सत्यब्रह्मचिन्तनरूपत्वात् अतत्क्रतुत्वेपि च पञ्चामिविदामिव ब्रह्मलोकप्राप्तिसंभवात् तथाच स्मतिः 'संन्यासाद्ब्रह्मणः स्थानमिति' तथा प्राप्नैहिकवेदान्तवाक्यविचारस्यापि कृच्छाशीतितुल्यफलत्वं स्मर्यते एवं च संन्यासश्रद्धासत्यब्रह्मविचाराणामन्यतमस्यापि ब्रह्मलोकप्राप्पिसाधनत्वात्समुदितानां तेषां तत्साधनवं किंचित्रं अतएव सर्वसुकृतरूपत्वं योगेचारतस्य तैत्तिरीयाः आमनन्ति 'तस्य ह वाएवं विदुषोयज्ञस्ये प्राप्य पुण्यकृताल्लोकानुषित्वा शाश्वतीः समाः॥ शुचीनां श्रीमतां गेहे योगभ्रष्टोभिजायते // 11 // त्यादिना' स्मयते च 'स्नातं तेन समस्ततीर्थ सलिले सर्वापि दत्तावनिर्यज्ञानां च कृतं सहस्रमखिलादेवाश्च संपूजिताः संसाराच समुद्धताः स्वपितरत्रैलोक्यपूज्यो यसौ यस्य ब्रह्मविचारणे क्षणमपि स्थैर्य मनः प्रामुयादिति // 40 // तदेवं योगभ्रष्टस्य शुभकृत्वेन लोकयपि नाशाभावे किं भवतीत्युच्यते योगमार्गप्रवृत्तः सर्वकर्मसंन्यासी वेदान्तश्रवणादि कुर्वन्नन्तराले म्रियमाणः! कश्चित्पूर्वोपचितभोगवासनाप्रादुर्भावाद्विषयेभ्यः स्पृहयति कश्चिनु वैराग्यभावनादाढर्यान स्पृहयति तयोः प्रथमः प्राप्य पुण्यकृता | मश्वमेधयाजिनां लोकानचिरादिमार्गेण ब्रह्मलोकान् एकस्मिन्नपि भोगभूमिभेदापेक्षया बहुवचनं तत्र चोषित्वा वासमनुभूय शाश्वतीब्रह्मपरिमाणेनाक्षयाः समाः संवत्सरान् तदन्ते शुचीनां शुद्धानां श्रीमतां विभूतिमतां महाराजचक्रवर्तिनां गेहे कुले भोगवासनाशेषसद्भा वादजातशत्रुजनकादिवद्योगभ्रष्टोभिजायते भोगवासनापावल्यान् ब्रह्मलोकान्ते सर्वकर्मसंन्यासायोग्योमहाराजाभवतीत्यर्थः // 41 // // 9 // For Private and Personal Use Only