SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. 189 // वेदान्तवाक्येषु विश्वास बुद्धिरूपयोपतोयुक्तः श्रद्धाच स्वसहचरितानां शमादीनामुपलक्षणं 'शान्तोदान्तउपरतस्तितिक्षुः श्रद्धान्वितोभत्वा त्मन्येवात्मानं पश्यतीति' श्रुतेः तेन नित्यानित्यवस्तुविवेकइहामुत्रभोगविरागशमदमोपरतितिक्षाश्रद्धादिसम्पत् मुमुक्षुताचेति साधनचतुष्टयसम्पन्नः गुरुमुपमृत्य वेदान्तवाक्यश्रवणादिकुर्वन्नपि परमायुषोल्पत्वेन मरणकाले चेन्द्रियाणां व्याकुलत्वेन साधनानुष्ठानासंभवात् योगाचलितमानसः योगाच्छ्राणादिपरिपाकलब्धजन्मनस्तत्त्वसाक्षात्काराचलितं तत्कलमप्राप्तं मानसं यस्य सः योगानिष्पत्त्यैवापाप्य योगसंसिद्धिं तत्त्वज्ञाननिमित्तामज्ञानतकार्यनिवृत्तिमपुनरावात्तसहितामप्राप्यातत्त्वजएव मृतः सन् कां गतिं हे कृष्ण गच्छति सु गति दुर्गतिं वा कर्मणां परित्यागाज्ज्ञानस्य चानुत्पत्तेः शाखोक्तमोक्षसाधनानुष्ठायित्वाच्छास्त्र गहितकर्मशून्यत्वाच्च // 37 // एतदेव संशगायबीज विवृणोति कधिदिति साभिलाषप्रने हेमहाबाहो महान्तः सर्वेषां भक्तानां सर्वोपद्रवनिवारणसमर्थाः पुरुषार्थचतुष्टयदानसमीवा चत्वारोबाहवायस्येति प्रश्ननिमित्त क्रोधाभावस्तदुत्तरदानसहिष्णुत्वं च सूचितं ब्रह्मणः पथि ब्रह्मप्राप्तिमार्ग ज्ञाने विमूढः विकञ्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति // अप्रतिष्ठोमहावाहो विमूढोब्रह्मणः पथि // 38 // क्षिप्तः अनुत्पन्नब्रह्माल्यैक्यसाक्षात्कारइति यावत् अप्रतिष्टः देवयानपित्यानमार्गगमनहेतुभ्यामुपासनाकर्मभ्यां प्रतिष्ठाभ्यां साधनाभ्यां रहितः सोपासनानां सर्वेषां कर्मणां परित्यागात् एतादृशउभयविभ्रष्टः कर्ममार्गाज्ज्ञानमार्गाच विभ्रष्टश्छिन्नाभ्रमिव वायुना छिन्नं विशकलितं पूर्वस्मान्मेपाष्टमुत्तरं मेघमप्राप्तमभ्रं यथा वृष्टययोग्यं सदन्तरालएव नश्यति तथा योगभ्रष्टोपि पूर्वस्मारकर्ममार्गादिच्छिन्नउत्तरं च ज्ञानमार्गमप्राप्तोन्तरालएव नश्यति कर्मफलं ज्ञानफलं च लम्धुमयोग्योन किमितिप्रभार्थः एतेन ज्ञानकर्मसमुच्चयोनिराकृतः एतस्मिम्हि पक्षे ज्ञानफलालाभेपि फर्मफललाभसंभवनोभयविभ्रष्टत्वाऽसंभवात न च तस्य कर्मसंभवपि फलकामनाल्यागात्तकलभ्रंशवचनमवकल्पतइति वाच्यं निष्कामानामपि कर्मणां फलसद्भावस्यापस्तम्बवचनाद्युदाहरणेन बहुशः प्रतिपादितत्वात् तस्मात्सर्वकर्मत्यागिनं प्रत्येवायं प्रभः अनर्थप्रातिशहायास्तत्रैव संभवात् // 38 // यथोपदार्शतसंशयापाकरणाय भगवन्तमन्तर्यामि-1 णमर्थयते पार्थः एतत् एतं पूर्वोपर्शितं मे मम संशयं हेकृष्ण छेत्तुमपनेतुमर्हस्यशेषतः संशयमूलाधर्मायुच्छेदेन मदन्यः कश्चि // 89 // For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy