________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 15251525152515251525251525251525 भ्यासेन च कल्याणस्रोतउद्घाट्यते इत्युभयाधीनश्चित्तवृत्तिनिरोधइति प्राग्भारनिम्नपदे तदा विवेकनिम्न कैवल्यपारभारं चित्तमित्यत्र व्याख्यायते यथा तीव्रवेगोपेतं नदीप्रवाहं सेतुबन्धनेन निवार्य कुल्याप्रणयनेन क्षेत्राभिमुखं तिर्यप्रवाहान्तरमुत्पाद्यते तथा वैराग्येण चित्तनद्या विषयप्रवाहं निवार्य समाध्यभ्यासेन प्रशान्तवाहिता सम्पाद्यतइति द्वारभेदात्समुच्चयएव एकडारवे हि त्रीहियवव विकल्पः स्यादिति मन्त्रजपदेवताध्यानादीनां क्रियारूपाणामावृत्तिलक्षणोऽभ्यासः संभवति सर्वव्यापारोपरमस्य तु समाधैः। कोनामाभ्यासहति शहां निवारयितुमभ्यास सूत्रयनिस्म तत्र स्थितौ यत्नोभ्यासइति तत्र स्वरूपावस्थिते द्रष्टरि शुद्धे चिदात्मनि चित्तस्यावृत्तिकस्य प्रशान्तवाहितारूपा निचलतास्थितिस्तदर्थ यत्नोमानसउत्साहः स्वभावचाञ्चल्यावहिः प्रवाहशील चित्तं सर्वथा निरोत्स्यामीत्येवंविधः सआवर्त्यमानोभ्यास उच्यते सत् दीर्घकालनैरन्तर्यसत्कारसेवितोदृढभूमिः अनिदेन दीर्घकाल | सेवितोविच्छेदाभावेन निरन्तरासेवितः सत्कारेण श्रद्धानिशयेन वा सेवितः सोभ्यासोवृहभामिविषयसुखवासनया चालयितुमशक्योभवति अदीर्घकालत्वे दीर्घकालत्वेपि विच्छिद्य विच्छिद्य सेवने श्रद्धातिशयाभावे च लयविक्षेपकषायसुखास्वादानामपरिहारे व्युत्थानसंस्कारप्राबल्या | दवमिरभ्यासः फलाय न स्यादिति त्रयमुपातं वैराग्यं तु दिविधं पर अपरं च यतमानसंज्ञाव्यतिरेकसं केन्द्रियसंज्ञावशीकारसंज्ञाभेदैरपरं चतुर्धा तत्र पूर्वभूमिजयनोत्सरभूमिसंपादनविवक्षया चतुर्थमेवासूत्रयन् दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञावैराग्यमिति स्त्रियोन्नपानमैश्वर्यामस्यादयोदृष्टाविषयाः स्वौविदेहता प्रकृतिलयइत्यादयोवैदिकत्वनानुभविकाविषयास्तेषूभयविधेष्वपि सत्यामेव तृष्णायां विवेकतारतम्येन यतमानादित्रयं भवति अत्र जगति किं सारं किमसारमिति गुरुशास्त्राभ्यां ज्ञास्यामीत्युद्योगोयतमानं स्वचित्ते पूर्वविद्यमानढोषाणां मध्येऽभ्यस्यमानविवेकनेतेपक्काः एतेऽवशिष्टाइति चिकित्सकवद्विवेचनं व्यतिरेकः दृष्टानुभविकविषयप्रवृत्तेर्दुःखात्मत्वबोधेन बहिरीन्द्रियप्रवृत्तिमजनयन्त्या अपि तृष्णायाः औत्सुक्यमात्रेण मनस्यवस्थान मेकेन्द्रियं मनस्यपि | तृष्णाशून्यत्वेन सर्वथा वैतृष्ण्यं तृष्णाविरोधिनी चित्तवृत्तिर्ज्ञानप्रसादरूपा वशीकारसंज्ञा वैराग्यं संप्रज्ञातस्य समाधेरन्तरङ्गं साधनमसंप्रज्ञातस्य तु बहिरङ्गं तस्य त्वन्तरङ्गसाधनं परमेव वैराग्यं तचासूत्रयत् 'तत्परं पुरुषख्यातेर्गुणवैतृण्यमिति ' संप्रज्ञातसमाधिपाटवेन गुणत्रयात्मकान्यधानादिविक्तस्य पुरुषस्य ख्यातिः साक्षात्कारउत्पद्यते ततवाशेषगुणत्रयव्यवहारेषु वैतृष्ण्यं यद्भवति दत्परं श्रेष्ठं फलभूत वैराग्यं तत्परिपाकनिमित्ताच चित्तोपशमपरिपाकादविलम्बेन कैवल्यमिति // 35 // यत्तु RRRRRRRRRRRESS For Private and Personal Use Only