________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 87 // 15theet अतएव च क्रमनियहराव युक्तस्तदेतद्भगवान् वसिष्ठआह उपविश्योपविश्यैव चित्तज्ञेन मुहर्मुहुः न शक्यते मनोजेतुं विना युक्तिम-द निन्दितां अङ्कशेन विना मत्तीयथा दुष्टमतगजः अध्यात्मविद्याधिगमः साधुसङ्गमएव च वासनासंपरित्यागः पाणस्पन्नानरोधन एतास्तायुक्तयः पुष्टाः सन्ति चित्तजये किल सतीषु युक्तिवेतासु हटानियमयान्तये चेनस्ते दीपमुत्सृज्य विनिम्नन्ति तमोम्जनैरिति' क्रमनियहे चा-1 ध्यात्मविद्याधिगमएकउपायः साहि दृश्यस्य मिथ्यात्वं दृग्वस्तुनश्च परमार्थसत्यपरमानन्दस्वप्रकाशत्वं बोधयति तथा च सत्येनन्मनः स्वगोचरेषु दृश्येषु मिथ्यात्वेन प्रयोजनामात्र प्रयोजनवति च परमार्थसत्यपरमानन्दरूपे दुग्वस्तुनि स्वप्रकाशत्वेन स्वागोचरत्वं |बुध्दा निरिन्धनानिवत्स्वयमेवोपक्ष्याम्यति यस्तु बोधिनमपि तत्त्वं न सम्यग्बुध्यते योवा विस्मरति तयोः साधुसङ्गमएवोपायः सा-| धोहि पुनः पुनर्बोधयनि स्मारयन्ति च यस्तु विद्यामदादिदुर्वासनया पीड्यमानोन साधूननुवर्तितुमुत्सहते तस्य पूर्वोक्तविवेकेन | वासनापरित्यागएवोपायः यस्तु वासनानामतिप्राबल्यानास्त्यक्तं न शक्नोति तस्य प्राणस्पन्दनिरोधण्वोपायः प्राणस्पन्दवासनयोश्वि|त्तप्रेरकत्वात्तयोर्निरोधे चित्तशान्तिरुपपद्यते तदेतदाह सएव वे बीजे चित्तवृक्षस्य प्राणस्पन्दनवासने एकस्मिश्च तयोः क्षीणे क्षिप्रं | अपि नश्यतः प्राणायामदृढाभ्यासैर्युक्त्या च गुरुदत्तया आसनाशनयोगेन प्राणस्पन्दोनिरुध्यते असङ्गव्यवहारित्वाद्भवभावनवर्ज| नात् शरीरनाशदर्शित्वाद्वासनान प्रवर्तते वासनासंपरित्यागाञ्चित्तं गच्छत्यनित्ततां प्राणस्पन्दनिरोधाच यथेच्छसि तथा कुर एतावन्मात्रकं मन्ये रूपं वित्तस्य राघव यद्भावने वस्तुनोन्तर्वस्तुत्वेन रसेन च यदा न भाव्यते किञ्चिद्धेयोपादेयरूपि यत् | स्थीयते सकलं त्यक्त्वा तदा चित्तं न जायते अवासनत्वात्सततं यदा न मनुते मनः अमनस्ता तदोदेति परमात्मपदप्रदेतिः अत्र दावेवोपायौ पर्यवसिती प्राणस्पन्दनिरोधार्थमभ्यासः वासनापरित्यागायं च वैराग्यमिति साधुसङ्गमाध्यात्मविद्याधिगमौ स्वभ्यासवैराग्योपपादकतयान्यथासिद्धौ तयोरेवान्तर्भवतः अतएव भगवताऽभ्यासेन वैराग्येण चेति इयमेवोक्तं अतएव भगवान् पतजलिरसूत्रयत् 'अभ्यासवैराग्याभ्यां तन्निरोधहति' तासां प्रागुक्तानां प्रमाणविपर्ययविकल्पनिद्रास्मृतिरूपेण पञ्चविधानामनन्तानामा सुरत्वेन किष्टानां दैवत्वेनाकिष्टानामपि वृत्तीनां सर्वासामपि निरोधोनिरिन्धनाग्निवदुपशमाख्यः परिणामोऽभ्यासेन वैराग्येण च समुचितेन भवति तदुक्तं योग्यभाष्ये चित्तनदीनामोभयतोवाहिनी वहति कल्याणाय वहति पापाय च तत्र या कैवल्यप्रारभारा विवेकनिम्म्रा सा कल्याणवहा या त्वविवेकनिम्म्रा संसारप्राग्भारा सा पापवहा तत्र वैराग्येण विषयस्रोतः खिलीक्रियते विवेकदर्शना-1 For Private and Personal Use Only