________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir |नेनात्मनोऽकर्बभोक्तपरमानन्दादयस्वरूपदर्शनेन च प्रयोजनाभावबद्धयाऽहमेतेषां कर्ता ममैते भोग्याहस्वाभिनिवेशरूपमनुषद् करोति हि यस्मान् तस्मात्सर्वसङ्कल्पसंन्यासी सर्वेषां सङ्कल्पानामिदं मया कर्तव्यमेतत् फलं भोकव्यामित्येवंरूपाणां मनोवृत्तिविशेषाणां तहि| षयाणां च कामानां तत्साधनानां च कर्मणां त्यागशीलः तदा शब्दादिषु कर्मसु चानुषगस्य तद्धेतोश्च सङ्कल्पस्य योगारोहणप्रतिबन्धकस्याभावात् योग समाधिमारूढोयोगारूढइत्युच्यते // 4 // योयदैवं योगारूडोभवति तदा तेनात्मनैवात्मोद्धृतोभवति संसारानर्यवातादतः | आत्मना विवेकयुक्तेन मनसा आत्मानं स्वं जीवं संसारसमुद्रे निमनं ततउद्धरेत् उत् ऊध्ये हरेत् विषयासङ्ग यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते // सर्वसङ्कल्पसंन्यासी योगारुढस्तदोच्यते // 4 // उद्धरेदात्मनात्मानं नात्मानमवसादयेत् // आत्मैव ह्यात्मनोवन्धुरात्मैव रिपुरात्मनः॥५॥ वन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः // अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् // 6 // 20505151565555555HARE5515 परित्यागेन योगारूडतामापादयदित्यर्थः नतु विषयासङ्गेनात्मानमवसादयेत् संसारसमुद्रे मज्जयेत् हि यस्मादात्मैवात्म| नोबन्धुर्हितकारी संसारबन्धनान्मोचनहेतुः नान्यः कश्चिल्लौकिकस्यबन्धोरपि स्नेहानुबन्धेन बन्धहेतुत्वान् आत्मैव नान्यः कश्चित् रिपुः शत्रुरहितकारी विषयवन्धनागारप्रवेशाकोशकारहवात्मनः स्वस्य बाह्यस्यापि रिपोरात्मप्रयुक्तत्वायुक्तमव| धारणमात्मैव रिपुरात्मनइति // 6 // इदानी किंलक्षणआत्मात्मनोबन्धुः किंलक्षणोवात्मनोरिपारेत्युच्यते आत्मा कार्यकरणसंघातोयेन जितः | स्ववशीकृतः आत्मनैव विवेकयुक्तेन मनसैव न तु शस्त्रादिना तस्यात्मता स्वरूपमात्मनोबन्धुरुच्छङ्कलस्वप्रवृत्त्यभावेन स्वाहतकरणात् अनात्मनस्तु अजितात्मनइत्येतत् शत्रुत्वे शत्रुभावे वर्तेतात्मैव शत्रुवत् बाह्यशत्रुरिवोच्छृङ्खलप्रवृत्त्या स्वस्य स्वेनानिष्टाचरणात्॥६॥ For Private and Personal Use Only