________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. ||च भवतीत्यर्थः तथा हि योगश्चित्तवृत्तिनिरोधः प्रमाणविपर्ययविकल्पनिद्रास्मतयइति वृत्तयः पञ्चविधाः तत्र प्रत्यक्षानुमानशास्त्रोपमा नार्थापत्त्यभावाख्यानि प्रमाणानि षडिति वैदिकाः प्रत्यक्षानुमानागमाः प्रमाणानि त्रीणीति योगाः अन्तर्भावबहिर्भावाभ्यां सङ्कोचविकासौ | द्रष्टव्यौ अतएव तार्किकादीनां मतभेदाः विपर्ययोमिथ्याज्ञानं तस्य पंचभेदाः अविद्याऽस्मितारागद्वेषाभिनिवेशाः तएव च क्लेशाः शब्दज्ञा॥७२॥ नानुपाती वस्तुशुन्योविकल्पः प्रमाभ्रमविलक्षणोऽसदर्थव्यवहारः शशविषाणमसत्पुरुषस्य चैतन्यमित्यादिः अभावप्रत्ययालम्बना वृत्तिनिद्रा चतसृणां वृत्तीनामभावस्य प्रत्ययः कारणं तमोगुणस्तदालम्बना वृत्तिरेव निद्रा नतु ज्ञानाद्यभावमात्रमित्यर्थः अनुभूतविषयासम्पमोषः प्रत्ययः स्मृतिः पूर्वानुभवसंस्कारजं ज्ञानमित्यर्थः सर्ववृत्तिजन्यत्वादन्ते कथनं लज्जादिवृत्तीनामपि पंचस्वेवान्तर्भावोद्रष्टव्यः एता 55252515251526852515 यं सन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव // नह्यसंन्यस्तसङ्कल्पोयोगी भवति कke श्वन // 2 // आरुरुक्षोर्मुनेयोगं कर्म कारणमुच्यते // योगारूढस्य तस्यैव शमः कारण मुच्यते // 3 // 2 वृशां सर्वासां चित्तवत्तीनां निरोधोयोगइति च समाधिरिति च कथ्यते फलसङ्कल्पस्तु रागाख्यस्ततीयोविपर्ययभेदस्तानिरोधमात्रमाप गौण्या वृत्त्या योगइति संन्यासइति चोच्यतइति न विरोधः॥२॥तन किं प्रशस्तत्वात् कर्मयोगएव यावज्जीवमनुष्ठेयइति नेत्याह योगमन्तः करणशुद्धिरूपं वैराग्यमाररुक्षोरारोगुमिच्छोर्न स्वारूढस्य मुनेर्भविष्यतः कर्मफलतृष्णात्यागिनः कर्म शास्त्रविहितमग्निहोत्रादि नित्यं भगवदपणबुद्ध्या कृतं कारणं योगारोहणे साधन मनुष्ठेय मुच्यते वेद मुखेन मया योगारूढस्य योगमन्तःकरणशुद्धिरूपं वैराग्यं प्राप्तवतस्तु तस्यैव पूर्व कर्मिणोपि सतः शमः सर्वकर्मसंन्यासएक कारणमनुष्ठेयतया ज्ञान परिपाकसाधनमुच्यते // 3 // कदा योगारूढोभवतीत्युच्यते यदा यस्मिन् चित्तसमाधानकाले इन्द्रियार्थेषु शब्दादिषु कर्मसु च नित्यनैमित्तिककाम्यलौकिकप्रतिषिद्धेषु नानुषज्जते तेषां मिथ्यात्वदर्श 5 For Private and Personal Use Only