________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूर्वमीश्वर्षितसर्वभावस्य कर्मयोगेनान्तःकरणशुद्धिस्ततः सर्वकर्मसंन्यासः ततः श्रवणादिपरस्य तत्त्वज्ञानं मोक्षसाधनमुदतीत्युक्तं अधुना सयोगी ब्रह्मनिर्वाणमित्यत्र सूचितं ध्यानयोगं सम्यग्दर्शनस्यान्तरङ्गसाधनं विस्तरेण वक्तं सूत्रस्थानीयस्त्रीन् श्लोकानाह भगवान् एतेषामेव वृत्तिस्थानीयः कृत्स्नः षष्ठोध्यायोभविष्यति तत्रापि द्वाभ्यां सङ्केपेण योगउच्यते ततीयेन तु तत्फलं परमात्मज्ञानमिति विवेकः स्पर्शान् शहादीन् वाद्यान् बहिर्भवानपि श्रोत्रादिद्वारा तत्तदाकारान्तःकरणवृत्तिभिरन्तःप्रविष्टान् पुनर्बहिरेव कृत्वा परवैराग्यवशेन तत्तदाकारां वृत्तिमनुत्पाद्येत्यर्थः यद्येते आन्तराभवेयुस्तदोपायसहस्रेणापि बहिर्नस्युः स्वभावभङ्गप्रसङ्गात् बाह्यानां तु रागवशादन्तःप्रविधानां वैराग्येण बहिर्गमनं संभवतीति वादतुं बाह्यानिति विशेषणं तदनेन वैराग्यमुक्त्वाऽभ्यासमाह चक्षुश्चैवान्तरे भुवोः कृत्वेत्यनुषज्यते RESENTERNET al स्पर्शान् कृत्वा वहिर्वाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः // प्राणापानौ समौ कृत्वा नासाभ्यन्तरचा. रिणी // 27 // यतेन्द्रियमनोवुद्धिर्मुनिर्मोक्षपरायणः // विगतेच्छाभयक्रोधोयः सदा मुक्तएव सः // 28 // अत्यन्तनिमीलने हि निद्राख्या लयात्मिका वृत्तिरेका भवेत् प्रसारणे तु प्रमाणविपर्ययविकल्पस्मृतयश्चतस्रोविक्षेपात्मिकावृत्तयोभवेयुः प वापि तु वृत्तयोनिरोद्धव्याइति अर्धनिमीलनेन भ्रमध्ये चक्षुयोनिधानं तथा प्राणापानौ समौ तुल्यावूर्वाधोगतिविच्छेदेन नासाभ्यन्तरचारिणौ कुम्भकैन कृत्वा अनेनोपायेन यताः संयताइन्द्रियमनोबुद्ध्यायस्य सतथा मोक्षपरायणः सर्वविषयविरक्तोमुनिर्मननशीलोभवेत् विगतेच्छाभयक्रोधइति वीतरागभयक्रोधइत्यत्र व्याख्यातं एतादृशोयः संन्यासी सदा भवति मुक्तएव सः न तु मोक्षः तस्य कर्तव्योस्ति अथवा यएतादृशः ससदा जीवन्नपि मुक्तएव // 27 // 28|| एवं योगयुक्तः किं ज्ञात्वा मुच्यतइति तदाह सर्वेषां यज्ञानां तपसांच कर्तरूपेण देवतारूपेण च भोक्तारं भोगकर्तारं पाल कामति वा भुज् पालनाभ्यवहारयोरितधातुः सर्वेषां लोकानां महान्तमीश्वर हिरण्यगर्भादीनामपि नियन्तारं स For Private and Personal Use Only