SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. भावनया तन्कृतायया योगिनां नउभयेपि सूक्ष्माः प्रतिप्रसवेन मनोनिरोधन / निर्वाजसमाधिना हेयाः येतु सूक्ष्मवत्यस्तकार्यभूताः स्थूलाविच्छिन्नारदाराश्च विच्छिद्य विच्छिद्य तेन तेनात्मना पुनः प्रादुर्भवन्तीति विच्छिन्नाः यथा रागकाले क्रोधोविद्यमानोपि न प्रादुर्भूतइति विच्छिन्न उच्यते एवमेकस्यां स्त्रियां चैत्रोरक्तहति नान्यासु विरक्तः किन्त्वेकस्यां रागोलब्धवत्तिरन्यासु च भविष्यत्तिरिनि सतदा विच्छिन्नउच्यते ये यदा विषयेषु लब्धवृत्तयस्ते तदा सर्वात्मना प्रादुर्भुना उदाराउच्यन्ते ततउभयेप्यतिस्थूलत्वाच्छुद्धसत्वमयेन भगवद्ध्यानेन हेयाः न मनोनिरोधमपेक्षन्त निरोधहेयास्तु सूक्ष्माएव तथा च परिणामतापसंस्कारदुःखेषु प्रसुप्ततनुविच्छिन्नरूपेण सर्वे केशाः सर्वदा सन्ति उदारतातु कदाचित्कस्य विशेषः एते च बाधना लक्षणं दुःखमुपजनयन्तः क्लेशशध्दवाच्याभवन्ति यतः कर्माशयोधर्माऽधर्माख्यः केशमूलकएव सति च मूलभूते केशे तस्य कर्माशयस्य विपाकः फलं जन्मायु गति सच कर्माशयइह परत्र च स्वत्रिपाकारम्भकत्वेन दृष्टादृष्टजन्मवेदनीयः एवं केशसन्ततिर्घटीयन्त्रवदनि शमावर्तते अतः समीचीनमुक्तं ये हि संस्पर्शजाभोगादःखयोनयएव ते आद्यन्तवन्तहति दुःखयो-1 नित्वं परिणामादिभिर्गुणवृत्तिविरोधाच आद्यन्तवत्वं गुणवृत्तस्य चलत्वादिति योगमते व्याख्या औपनिषदानां तु अनादिभावरूपमज्ञानमविद्या अहङ्कारधर्मध्यासोऽस्मिता रागद्वेषाभिनिवेशास्तत्तिविशेषाइत्यविद्यामूलत्वात्सर्वेप्यावद्यात्मकत्वेन मिथ्याभूतारज्जुभुजङ्गा| ध्यासवन्मिथ्याभूतत्वेपि दुःखयोनयः स्वमादिवष्टिसृष्टिमात्रवेनाद्यन्तवन्तति बुधोधिष्ठानसाक्षात्कारेण निवृत्तभ्रमस्तेषु न रमते मग-11 तष्णिकास्वरूपज्ञानवानिव तत्रोदकार्थी न प्रर्वतते न संसारे सुखस्य गन्धमात्रमप्यस्तीति बुध्दा ततः सर्वाणीन्द्रियाणि निवर्तयेदित्यर्थः // 22 // सर्वानर्थप्राप्निहेतुर्दीनवारोय श्रेयोमार्गप्रतिपक्षः कष्टतमोदोषोमहता यलेन मुमुक्षुणा निवारणीयइति यत्नाधिक्यविधानाय पुनराह आत्मनोनुकूलेषु सुखहेतुषु दृश्यमानेषु भूयमाणेषु स्मर्यमाणेषु वा तद्गुणानुसन्धानाभ्यासेन योरत्यात्मकोगद्योभिलाषस्तृष्णालोभः सकामः स्त्रीपुंसयोः | परस्परव्यतिकराभिलाषेवत्यन्तनिरूढः कामशः एतदभिप्रायेण कामः क्रोधस्तथालोभइत्यत्र धनतृष्णा लोभः स्त्रीपुंसव्यतिकरस्तृष्णा कामइति कामलोभौ पृथगुक्तौ इह तु तृष्णासामान्याभिप्रायेण कामशब्दः प्रयुक्तइति लोभः पृथङ्नोक्तः एवमात्मनः प्रतिकूलेषु दुःखहेतुषु दृश्यमानेषु भूयमाणेषु स्मर्यमाणेषु वा तदोषानुसन्धानाभ्यासेन यः प्रज्वलनात्मकोद्देषोमन्युः सक्रोधः तयोरकटावस्था लोकवेदविरोधप्रतिसन्धानप्रतिबन्धकतया लोकवेदविरुद्धप्रवृत्त्युन्मुखत्वरूपा नदीवेगसाम्येन वेगइत्युच्यते यथा हि नद्यावेगोवर्षास्त्रतिप्रबलतया लोकवेदविरोधप्रतिसन्धानेनानिच्छन्तमपि गर्ने पातयित्वा मन्जयति चाधोनयति च तथा कामक्रो 88888888888888888 // 69 // For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy