________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir भ्यां ज्ञानाभावरूपत्वं व्यावर्तित नह्यभावः किंचिदावृणोति न वाज्ञानाभावोज्ञानेन नाश्यते स्वभावनाशरूपत्वात्तस्य तस्मादहमज्ञोमामन्यंच नजानामीत्यादिसाक्षिप्रत्यक्षसिद्धं भावरूपमेवाज्ञानमिति भगवतोमतं विस्तरस्त्वद्वैतसिद्धौ द्रष्टव्यः येषामिनि बहुवचनेनानियमो दर्शितः तथाच श्रुतिः 'तद्योयोदेवानां प्रत्यबुद्धयत सएव तदभवत्तथर्षीणां तथा मनुष्याणां नदिदमप्येताह यएवं वेदाहं ब्रह्मास्मीति सइदं सर्व भवतीत्यादिः यविषयं यदाश्रयमज्ञानं तद्विषयतदाश्रयप्रमाणज्ञानात्तनिवृत्तिरिति न्यायप्राणनियमं दर्शयति तत्राज्ञानगतमावरणं विविध एकं सतोप्यसत्त्वापादकं अन्यत्तु भानोप्यभानापादकं तत्रायं परोक्षापरोक्षसाधारणप्रमाणज्ञानमात्रानिवर्तते अनुमितेपि बन्धादौ पर्वते वन्हि र्नास्तीत्यादिभ्रमादर्शनात् तथा 'सत्यं ज्ञानमनन्तं ब्रह्मास्तीति' वाक्यात्परोक्षनिश्चयपि ब्रह्मनास्तीति भ्रमोनिवर्ततएव अस्त्येव ब्रह्म किन्तु मम न भातीत्येकं भ्रमजनकं द्वितीयमभानावरणं साक्षात्कारादेव निवर्तते सच साक्षात्कारोवेदान्तवाक्येनैव जन्यते निर्विकल्पकइत्याद्यद्वैत ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः // तेषामादित्यवत्ज्ञानं प्रकाशयति तत्परम्॥१६॥ सिद्धावनुसन्धेयम् // 16 // ज्ञानेन परमात्मतत्त्वप्रकाशे सति तस्मिन् ज्ञानप्रकाशिते परमात्मतत्वे सचिदानन्दघनएव बाह्यसर्वविषयपरित्यागेन साधनपरिपाकात्पर्यवसिता बुद्धिरन्तःकरणवृत्तिः साक्षात्कारलक्षणा येषां ते तदुद्धयः सर्वदा निर्बाजसमाधिभाजइत्यर्थः तल्कि बोद्धारोजीवाबोद्धव्यं ब्रह्मतत्त्वमिति बोबोद्धव्यलक्षणभेदोति नेत्याह तदात्मानः तदेव परब्रह्मात्मा येषां ते तथा बोबोद्धव्यभावोहि मायाविजृम्भितोन वास्तवाभेदविरोधीति भावः ननु तदात्मानइति विशेषणं व्यर्थं अविल्यावर्तकं हि विद्विशेषणं अज्ञाअपि हि वस्तुगत्या तदात्मानइति कथं तया त्तिरिति चेत् न इतरात्मत्वव्यावृत्ती तात्पर्यात् अज्ञाहि अनात्मभूते देहादावात्माभिमानिनइति न तदात्मानइति व्यपदिश्यन्ते विज्ञास्तु निवृत्तदेहायभिमानाइति विरोधिनिवृत्त्या तदात्मानइति व्यपदिश्यन्तइति युक्तं विशेषणं ननु कर्मानुष्ठानविक्षेपेसति कथं देहाद्यभिमाननिवृत्तिरिति तत्राह तनिष्ठाः तस्मिन्नेव ब्रह्मणि सर्वकर्मानुष्टानावक्षेपानवृत्त्या निष्टा स्थितिर्येषां ||2|| For Private and Personal Use Only