SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गेहे तत्पूजापरिभवादिभिरपत्दृप्यन्न विषीदन्नहङ्कारममकारशन्यस्तिष्ठति अज्ञोहि देहतादात्म्याभिमानादेहएव नतु देही सच देहाधिकरणमेवात्मनोधिकरणं मन्यमानोगृहे भूमावासने वाहमासइत्यभिमन्यते नतु देहेऽहमासइति भेददर्शनाभावात् संघानव्यतिरिक्तास्मदर्शी तु सर्वकर्मसंन्यासी भेददर्शनाइहेऽहमासइति प्रतिपद्यते अतएव देहादिव्यापाराणामविद्ययात्मन्यक्रिये समारोपिनानां विद्यया बाधएव सर्वकर्मसंन्यासइत्युच्यते एतस्मादेवाजवलक्षण्यायुक्तं विशेषणं नवद्वारे पुरआस्तइति ननु देहादिव्यापाराणामात्मन्यारोपितानां नौव्यापाराणां तीरस्थवृक्षइव विद्यया बाधेपि स्वव्यापारेणात्मनः कर्तृत्वं देहादिव्यापारेषु कारयितत्वंच स्यादिति नेत्याह नैव कुर्वन्नकारयन् आस्तइति संबन्धः // 13 // देवदत्तस्य स्वगतैव गतिर्यथा स्थिती सत्यां न भवति एवमात्मनोपि कर्तत्वं कारयितृत्वंच स्वग| तमेव सत्संन्यासेसति न भवति अथवा नभसि तलमलिनतादिवद्वस्तुवृत्त्या तब नास्त्येवेति सन्देहापोहायाह लोकस्य देहादेः कर्तृत्वं न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः // न कर्मफलसंयोगं स्वभावस्तु प्रवतेते // 14 // प्रभुरात्मा स्वामी न सृजति वं कुर्विति नियोगेन तस्य कारयिता न भवतीत्यर्थः नापि लोकस्य कर्माणीप्सिततमानि घटादीनि स्वयं सजाति कर्तापि न भवतीत्यर्थः नापि लोकस्य कर्मकृतवतस्तत्फलसंबन्धं सृजति भोजयितापि भो|क्तापि न भवतीत्यर्थः 'समानः सन्नुभौ कावनुसंचरति ध्यायतीव लेलायनीव सधीरित्यादिश्रुनेः' अत्रापि शरीरस्थोपि कौन्तेय न करोति न लिप्यतइत्युक्तेः यदि किंचिदपि स्वतोन कारयति न करोति चात्मा कस्तर्हि कारयन्कुर्वंश्च प्रवर्ततइति तबाह स्वभावस्तु अज्ञानात्मिका दैवी माया प्रकृतिः प्रवर्तते // 14 // नन्वीश्वरः कारयिता जीवः कर्ता तथा |च अतिः ‘एषउद्येव साधु कर्म कारयति तं यमुन्निनीषने एष उवा ऽसाधु कर्म कारयति तं यमधोनिनीषतइत्यादिः' स्मृतिश्च 'अज्ञोमन्तुरनीशोयमात्मनः सुखदुःखयोः ईश्वरप्रेरितोगच्छेत्स्वर्ग वा श्वभ्रमेय वेति तथा च जीवेश्वरयोः कर्तत्वकारयितृत्वाभ्यां भो For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy