SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir // श्रीकृष्णाय गीना मृतदुहेनमः // अध्यायाभ्यां कृतोहाभ्यां निर्णयः कर्मबोधयोः कर्मतत्यागयोहाभ्यां निर्णयः क्रियतेऽधुना तनीयेऽध्याये ज्यायतीचेकर्मणस्तइत्यादिनाऽर्जुनेन पटोभगवान्ज्ञानकर्मणर्विकल्पसमुच्चयासभोनाधिकारिभेदश्यवस्थया लोकस्मिन्दिविधा निष्ठा पुरा प्रोक्ता मयेत्यादिना निर्णयं कृतवान् नथा नाजाधिकारिक कर्म न ज्ञानेन सह समुचीयते तेजस्तिमिरयोरिव युगपदसंभवान् कर्माधिकारहेतुभेदवुद्धचपनोदकत्वेन ज्ञानस्य तहिरोधित्वान् नारि विकल्प्यते एकार्थत्वाभावान् ज्ञान कार्यस्याज्ञाननाशस्य कर्मणा कर्तुमशक्यस्वात् 'तमेव विदित्वातिमृत्युमनि नान्यः पन्याविद्यतेऽयनायेति' श्रुनेः ज्ञाने जाते तु कर्म कार्य नापेक्ष्यतएवेत्युक्तं यावानर्यउदपानइत्यत्र तथाच ज्ञानिनः कर्मानधिकारे निश्चिते पारब्धकर्मवशाड्याचेष्टारूपेण नदनुष्टानं वा सर्वकर्मसंन्यासोवेति निर्विवादं चतुर्थे निर्णीतं अज्ञेन त्वन्तःकरणशुन्द्रिद्वारा ज्ञानोत्पत्तये कर्मण्यनुठेयानि 'समेत वेदानुवचनेन ब्राह्मणाविधिविषन्ति यज्ञेन दानेन नपसानाशकेनिति' अनेः सर्व कर्माखिलं पार्थ ज्ञाने परिसमाप्यतइति भगवचनाच एवं सर्वकर्माणि ज्ञानार्थानि तथा सर्वकर्मसंन्यासोपे ज्ञानार्थः भूयने 'एतमेव प्रवाजिनोलोकमिच्छन्तः प्रवजलि शान्ताहान्नउपरतस्तितिक्षुः समाहितोभूत्वात्मन्येवात्मानं पश्ये त्यजतैव हि तत्ज्ञेयं त्य तुः प्रत्यक् परं पदं सत्यानने सुखदुःखे वेदानिमं लोकम मुंच परित्यज्यात्मानमाधिच्छेदित्यादौ' तत्र कर्मतत्त्यागयोरारादुपकारकसबिपत्योपकारकयोः प्रयाजावघातयोरिव न समञ्चयः संभवति विरुद्धत्वेन योगपद्याभावात् नापि कर्मतत्त्यागयोरात्मज्ञानमावफलत्वेनै कार्यत्वादतिरात्रयोः पोडशिग्रहणाग्रहणयोरिव विकल्पः स्यान् द्वारभेदेनैकार्थत्वाभावात् कर्मणोहि पापक्षयरूपमदृष्टमेव द्वार संन्यासस्य तु सर्वविक्षेपामारेन विचारावसरदानरूप दृष्टमेत्र द्वारं नियमापूर्वनु इष्टसमवायित्वादवघातादाविव न प्रयोजक तथा चादृष्टार्यदृष्टार्थयोरारादुपकारकसन्निपत्योपकारकयोरेकप्रधानार्थत्वपि विकल्लोनास्त्येव प्रयाजावघातादीनामपि तत्प्रसजा तस्मात् क्रमेणोभयमप्यनुटेयं तत्रापि संन्यासानन्तरं कर्मानुटानं चेत्तझ परित्यक्तपूर्वाश्रमस्वीकारेणारूटपातेतत्वात् कर्मानधिकारित्वं प्राक्तनसंन्यासयथ्यंच तस्मादृष्टार्थस्वाभावान् प्रथमकृतसंन्यासेनैव ज्ञानाधिकारलाभे तदुत्तरकाले कर्मानुष्ठानवैयर्थ्यच तस्मादाद भगवदर्पणबुड्या निष्कामकर्मानुष्ठानादन्तःकरणशुद्धौ तीवेण वैराग्येण विविदिषायां दृढायां सर्वकर्मसंन्यासः श्रवणमननादिरूपसावदान्तवाक्यविचाराय कर्तव्यहति भगवतोमत नथा चोकं न कर्मणामनारम्नानैष्कर्म्य पुरुषोभुनइति वक्ष्यते च आरुरुक्षोर्मुनेयोग कर्म-14 कारणमुच्यते योगारूहस्य तस्यैव शमः कारणमुच्यतहति योगोत्र तीववैराग्यपूर्विका विविदिषा तदुक्तं वार्तिककारैः 'प्रत्यग्विविदेिषासिद्ध For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy