SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.. पिते ज्ञानं वेदान्तवाक्यजन्योब्रह्मात्मैक्यसाक्षात्कारस्तेनाविद्यानत्कार्यनाशद्वारा दीपिते अत्यन्तोज्ज्वलिते बाधपूर्वके समाधी समष्टिलिङ्गशरीरमपरे जुब्हति प्रविलापयन्तीत्यर्थः अत्र च सर्वाणीति आत्मेति ज्ञानदीपितइति विशेषणैरनावित्येकवचनेन च पूर्ववैलक्षण्यं सूचितमिति न पौनरुक्त्यम् // 27 // एवं त्रिभिः श्लोके पंचयज्ञानुक्त्वाऽधुनकेन श्लोकेन षड्यज्ञानाह द्रव्यत्यागएव यथाशास्त्र यज्ञोयेषां ते द्रव्ययज्ञाः पूर्तदत्ताख्यस्मातकर्मपराः तथाच स्मृतिः ‘वापीकूपतडागादि देवतायतनानिच अन्नप्रदानमारामः पुतमित्याभधीयते शरणागतसंत्राणं भूतानांचाप्यहिंसनं बहिर्वेदि च यहानं दत्तमित्यभिधीयतइति / इटाख्यं औतं कर्म दैवमेवापरे यज्ञमित्यत्रोक्तं अन्तर्वेदिदानमपि तत्रैवान्तर्भूतं तथा कृचान्द्रायणादितपरव यज्ञोयेषां ते तपोयज्ञातपस्विनः तथा योगश्चित्तवृत्तिनिरोधोष्टाङ्गोयज्ञोयेषां ते योगयज्ञाः यमनियमासनादियोगाङ्गानुष्ठानपराः यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो हि योगस्याष्टावङ्गानि तत्र प्रत्याहारः श्रोत्रादीनीन्द्रियाण्यन्यइत्यत्रोक्तः धारणाध्यानसमाधयआत्मसंयमयोगानावित्यत्रोक्ताः प्राणायामोऽपाने जुव्हति प्राणमित्यनन्तरलोके वक्ष्यते यमनियमासनान्यत्रोच्यन्ते अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहायमाः पंच शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः पंच स्थिरमुखमासनं पद्मकस्वस्तिकाद्यनेकर्वधं अशास्त्रीयः प्राणिवधोहिंसा सा च कृतकारितानुमोदितभेदेन त्रिविधा एवमयथार्थभाषणमवध्यहिंसानुवन्धि यथार्थभाषणं चानृतं स्तेयमशास्त्रीयमार्गेण परद्रव्यस्वीकरणं अशास्त्रीयः स्त्रीपुंसव्यकरोमैथुनं शास्त्रनिषिद्धमार्गेण देहयात्रानिर्वाहकाधिकभोगसाधनस्वीकारः परियहः एतनिवत्तिलक्षणाउपरमायमाः यमाः उपरमहति | स्मरणात् तथा शौच द्विविध बाह्यमाभ्यन्तरंच मज्जलादिभिः कायादिक्षालनं हितमितमेध्याशनादि च बाचं मैत्रीमुदितादिभिर्मदमानादिचित्तमलक्षालनमान्तरं सन्तोषविद्यमानभोगोपकरणादाधिकस्यानुपादित्सारूपा चित्तवृत्तिः तपः क्षामिपासाशीतोष्णादिद्वन्दसहनं काष्ठमौनाकारमौनादिव्रतानि च इनितेनापि स्वाभिप्रायाप्रकाशनं काष्टमौनं अवचनमात्रमाकारमौनमिति भेदः स्वाध्यायोमोक्षशास्त्राणामध्ययनं प्रणवजपोवा ईश्वरप्रणिधानं सर्वकर्मणां तस्मिन्परमगुरौ फलनिरपेक्षतयाऽर्पणं एते विधिरूपानियमाः पुराणेषु येधिकाउक्तास्त| एष्वेव यमनियमेष्वन्तर्भाव्याः एतादृशयमनियमाद्यभ्यासपरायोगयज्ञाः स्वाध्यायज्ञानयज्ञाच यथाविधि वेदाभ्यासपराः स्वाध्याययज्ञाः न्यायेन वेदार्थनिश्चयपराज्ञान यज्ञाः यज्ञान्तरमाह यतयोयत्नशीलाः संशितव्रताः सम्यक् शितानि तीक्ष्णीकृतान्यतिवृतानि प्रतानि येषां ते संशितव्रतयज्ञाइत्यर्थः तथा च भगवान्पतञ्जाल: 'तेजोतिदेशकालसमयानवच्छिन्नाः सार्वभौमानहानतमिति' ये पूर्वमहिंसाद्याः पंच यमाउ 57 // For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy