________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सप्तदश: प्रबन्धः
भूम्यवतारितनागविमानं व्योमाभासितदेवखयानम् । वीक्षिता हरिवीक्षिता लोकविनुतपादकमला ॥ ७ ॥
सरसिजमरकतवरमणितानं विरहितधूमकमग्निनिधानम् । वीक्षिता हरिवीक्षिता लोकविनुतपादकमला ॥ ८ ॥
स्वप्नेक्षणातुष्टविशिष्टचित्ता रोमाञ्चक प्रातिदिव्यगात्रा | शुभ्राम्बर भ्राजितसत्कलना विराजिता लोलकुरङ्गनेत्रा ।। ९ ।।
इति श्रीमदभिनवचारुकीर्तिपण्डिताचार्यवर्यस्य कृतौ गीतवीतरागे षोडशस्वप्नवर्णनो नाम
षोडशः प्रबन्धः ॥ १६ ॥
[ १७ ]
विलीननिद्रां च विभात तूर्यां कलारवव्यापितकर्णशोभाम् । प्रबोधयामासुरिति प्रभातप्रशस्तपाठः सुरबन्दिदेवाः ॥ १ ॥
Acharya Shri Kailassagarsuri Gyanmandir
७) A सुरुचिर for सरसिज ।
For Private And Personal Use Only
४३