________________
Shri Mahavir Jain Aradhana Kendra
容复
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
गीतवीतरागप्रबन्धः
अरुणजटाधृतमृगपतिममलं करियुगस्नापितवरतनुकमलम् ।
वीक्षिता हरिवीक्षिता लोकविनुतपादकमला ॥ २ ॥
सुरभिभरितसुममाला युगलं किरणविभासितशशधरममलम् । वीक्षिता हरिवीक्षिता लोकविनुतपादकमला ॥ ३ ॥
निरसिततिमिरकरविमतितिग्मं * सरसि विलासितमीनकयुग्मम् । वोक्षिता हरिवीक्षिता लोकविनुतपादकमला ॥ ४ ॥
चन्दनचर्चित कुम्भसुयमलं नन्दितसरसिजवापीमतलाम् । वीक्षिता हरिवीक्षिता लोकविनुतपादकमला ॥ ५ ॥
तरङ्ग विलोलितजलधिममानं करिरिपुततिधृतपीठं भानम् । वीक्षिता हरिवीक्षिता लोकविनुतपादकमला || ६ ||
५) तिमिरक- रवि ।
६ ) B पोठसुभानम्, M पोठविभानम् ।
For Private And Personal Use Only