________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गीतवीतरागप्रबन्धः
संगतां सिकताचयाभसुमध्यशोभनकेन अङ्गितां सुशिरीषपुष्पमृदूढबाहुशुभेन ।। घर धर कृतादरमानसेन || *४॥ नन्दितां स्मरपूर्णकुम्भपयोधरातिशयेन सौन्दरा नयनद्वयाश्चितवक्त्रपद्मसुमेन । धर धर कृतादरमानसेन ॥ ५॥ भूषितां मुखवासनाधृतनासिकाविभवेन । योषितां मणिमुत्पलाङ्कितकर्मकान्तिततेन । धर धर कृतादरमानसेन ॥६॥ लालितां शशिखण्डसंनिभकान्तिसंनिटिलेन लोलितामलिनीलकुन्तलग्रन्थिकारचनेन । धर धर कृतादरमानसेन ॥ ७ ॥ कामिनीं धृतहारनू पुरचारुभूषगणेन श्रीमती सकलाभिरामकसाधुभूरिगुणेन । धर धर कृतादरमानसेन ।। *८ चूताशोकसुमल्लिकाजकुमुदवातप्रफुल्लप्रसूनौघासादिततिग्मसायकचयान्प्राणोपहारोद्यताम् । भृङ्गारब्धसुझंकृतान्विषमगान्मारोपय त्वं वृथा चापे पुष्पमये मनोभव मका विज्ञाप्यते ऽद्य प्रभो ॥२ इति श्रीमदमिनवचारुकीर्तिपण्डिताचार्यवर्यस्य कृतौ गीतवीतरागे वज्रजङ्घस्य श्रीमतीसौरू प्यवर्णनो नाम
षष्ठः प्रबन्धः ॥६॥
३) वासना+ अधृत । ४) B मुख for मणि ।
For Private And Personal Use Only