________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गीतवीतरागप्रबन्धः भूमिप तव धर्मफलेन जय धरणीशपते खेचरभूप जय धरणीशपते ॥ ७॥ मुवि धृतसुरपतिलीलापात्र वरिष्ठ भवसि महाबल पुण्यगरिष्ठ । भूमिप तव धर्मफलेन जय धरणीशपते खेचरभूप जय धरणीशपते ॥ ८ ॥ एकान्तशून्यादिमताधिरूढान् सोद्दिष्टसद्धर्मनिरासवादान् । तान्मन्त्रिपाशान सुजिगाय वादैः सद्धेतुभूतैः सचिवाग्रणीः सः ।। ५ इति निजपतिमोहं वारयित्वा बुधेशः समगतसचिवानां मानभङ्ग विधाय । अभिमतफलसिद्धो मन्दरागेन्द्रराजज्जिनपतिसदनानि प्रार्चितुं संजगाम ॥६ इति श्रीमदमिनवचारुकीर्तिपण्डिताचार्यधर्यस्य कृतौ गीतवीतरागे
महाबलस्य सद्धर्मप्रशंसाविवरणो नाम
प्रथमः प्रबन्धः ॥१॥
[२] वन्दित्वा च जिनालयानुपगतौ योगीश्वरी पृच्छय च प्राग्जन्माश्रितभोगगृद्धिजनितं सर्व निदानं प्रभोः। एष्यजन्मनि भारते पुरुजिनेशित्वं सुरेन्द्राय॑कं श्रत्वात्यल्पकजीवितं च स पुनः प्रत्यागमत्स्वं पुरम् ॥१
For Private And Personal Use Only