________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
गीतवीतरागप्रबन्धः
पूर्वस्मिन् जयवर्मनामनृपतिं विद्याधराधीश्वरं पश्चात्सल्ललिताङ्गदेवममलं श्रीवत्रजङ्घाधिपम् । आर्य श्रीधरनिर्जरं च सुविधिं कल्पान्तदेवेश्वरं चक्राधीश्वरवज्रनाभिजनपं सर्वार्थसिद्धीश्वरम् ॥ २
મ
साकेताधिपनाभिराजतनयं कल्याणपञ्चाश्वितं प्राप्तानन्तचतुष्टयं जिनवरं सौवर्णदेहावहम् । सौधर्मादिशतेन्द्रवृन्दविनत श्रीपादपद्मद्वयं वन्दे ऽहं वृषभेश्वरं गुणनिधिं सद्धर्मचक्राधिपम् ॥ ३ मेरोः पश्चिमगन्धिले जनपदे विद्याधराणां पदस्याद्रेरुत्तरदिविस्थते सदलकानाम्ना प्रतीते पुरे । राजा शस्तमहाबलः सचिव कैर्युक्तश्चतुर्भिः सदा राजन्तं समुवाच धर्मसुफलं बुद्धः स्वयंपूर्वकः ॥ ४
3
भरितपयोधितटप्रमिताव निभागं *
सरसचरित्रकलत्रसुभोगम् ।
भूमिप तव धर्मफलेन जय धरणीशपते खेचरभूप जय धरणीशपते ॥ १ ॥ ध्रुवपदम् । क्षितिपतिततिधृतपावनशासनधरणं
जित रिपुबलगजतुरगाशरणम् । भूमिप तव धर्मफलेन जय धरणीशपते खेचरभूप जय धरणीशपते ॥ २ ॥
२ ) BMS जिनपं, जनपः =
- नृपः ।
३) A अष्टपदं । देशीरागे; B अष्टक राग मालवराग; M राग-सौराष्ट्र || आदिताळ |
४ ) A भागः, भोग:, B भागं, भोगं; S भागा, भोगा ।
For Private And Personal Use Only