________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोविंशतिः प्रवन्धः सरोवरैः सत्सलिलैलतान्तकप्रशस्तगेहैः कृतशैलराजिभिः । ध्वजैः सरिद्भिः सुरगीतकैः स्तवैविराजितं नः प्रतिपातु सत्सदः ॥ २ 'तुङ्गसुगोपुरभासितकाञ्चनमानस्तम्भनिधानं मङ्गलसंधृतचैत्यपदायतजैननिवासविभानम् । व्यरुचदनामलमणिमयसमवसरणभूतलम् ॥ ध्रुवपदम् । विमलतटाश्रितहंसनिवहकृतशोभनरावविराजदमितकमलकुमुदालिविलोलितजलधृतभूमिविभागम् । व्यरुचदनामलमणिमयसमवसरणभूतलम् ॥ २॥ मञ्जलगुञ्जन्मधुकरसेवितरञ्जितकुसुमविकासं व्यचितवल्लीमण्डपलीनसुपुञ्जितकुसुमकुभासम् । व्यरुचदनयोंमलमणिमयसमवसरणभूतलम् ॥ ३ ॥ अलिशुककोकिलकेकीसुरवखगकुलकलकूजनरागं कलिलविजयजिनप्रतिमातततरुललितसदुपवनभागम् । व्यरुचदनामलमणिमयसमवसरणभूतलम् ।। *४ ॥ करिषस्रग्वसनाम्बुजहंसकहरिशिखिचक्रविशिष्टं गरुडनिचितमणिस्तम्भधृतध्वजधरणीमागगरिष्ठम् । व्यरुचदनव्योमलमणिमयसमवसरणभूतलम् ॥ *५ ।। अनुपमसिद्धप्रतिमाधिष्ठितघनतरवुध्न प्रदेशं विनतसुरासुरपूजितसुरतरुवनधरणीसुनिवेशम् । व्यरुचदनामलमणिमयसमवसरणभूतलम् ।। ६ ।।
१) A अष्टपद; B राग-सुरटि । २) B प्रदायक for पदायत ।
For Private And Personal Use Only