________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गीतवीतरागप्रबन्धः मरकतमणिकृतदण्डविधृतकरसुरदौवारिककान्तं सरसिजमणिगोपुरचितस्फटिकवरणावृतसदुपान्तम् । विरराज सकलहर्षकरं सुरनरहृदयङ्गमवासं जिनपतिसमवसरणमतिरुचिरविलासम् ॥ ८ ॥ "धूलीशालोरुखाता कनकमयमहावेदिकायुग्मभासा रत्नप्राकारवेषा सितसुरगणिकानाट्यशालाविभूषा वेदीद्धा रूप्यशाला नटनसुरवधूनाट्यशाला सुवेदीस्फाटिक्यप्रांशुशाला समवसरणभूः पातु नः सर्वकालम् ॥५ सोपानराजिप्रविराजमाना भृङ्गारतालादिविभासमाना । भौमामरादिप्रतिहारभाना जैनी सभा पातु नतान् सदा नः ॥६ इति श्रीमदमिनवचारुकीर्तिपण्डिताचार्यवर्यस्य कृतौ गीतवीतरागे भगवत्समवसरणसालवेदिवर्णनो नाम द्वाविंशतितमः प्रबन्धः ॥ २२ ॥
मानस्तम्भजिनालयौघनिचितं सत्खातिकाप्रावृत वल्लीभूमिविराजितं जिनतरूपेतैर्वनैरन्वितम् । नागादिध्वजभासितं सुरतरुस्तोमेन संशोभितं हम्यद्वादशकोष्टकैर्विलसितं जनं सदः पातु नः ॥ १
१०) A खाता, com. कासा; काशा ।
For Private And Personal Use Only