________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ ८६ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
त्युक्तवा रोहिण्युसँगस्थं तस्या लघीयांसं पुत्रं लोकराजाख्यं राजा निजहस्तेन भूमावपात यत्, तदा तत्रस्थाः सर्वे जनास्तं तथा पर्ततं दृष्ट्वा दाहारखं कर्त्तुं लग्नाः परं रोहिण्या हृदि किंचिन्मात्रमपि दुःखं न जाते. इतस्तं पततं बालकं नगराधिष्टितेन देवेन धृत्वा सिंहासने स स्थापितः, तद् दृष्ट्वा सर्वे जनाश्चमत्कृताः संतो विचारयामासुः, नूनमियं रोहिणी धन्यैव या दुःखस्य वार्त्तामपि न जानाति,
इतस्तत्र श्रीवासुपूज्यतीर्थंकरस्य रूप्यकुंजस्वर्णकुंजनामानौ दौ शिष्यो ज्ञानवंतौ तत्र समागतौ तदा राजा परिवारयुतस्तौ वंदितुं गतः, गुरुभ्यां च देशना दत्ता, देशनाश्रवणानंतरं रा ज्ञा पृष्टं जो भगवन अनया रोहिण्यैवंविधं किं तपः कृतं येनेयं दुःखस्य वार्त्तामपि न जानाति एतस्या अष्टौ पुत्राश्चत्वारश्च पुत्र्यो जाताः संति, तथा ममापि तस्या नपर्यतीव स्नेहो वर्तते श्रतस्तस्याः कथां युवां कृपां विधाय कथयतं तत् श्रुत्वा गुरुः कथयति अस्मिन्नेव नगरे धनमित्रनामा श्रेष्टी वसति, तस्य घनमित्रा नाम्नी च जर्यास्ति, तस्या एका दुर्गंधा नाश्री पुत्री, सा कुरूपा जाता एवंविधां तां कुरूपां दृष्ट्वा कोऽपि इध्येश्वरो नोप
For Private And Personal
ਪ੍ਰ
॥ ८६ ॥