________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतमपृच्छा ॥ ॥५३॥
%8008%%****
अष्टादशम एकोनविंशतितमप्रश्नौ ।
*******aksis. RESS **
अथ तयोः कथामाह
पृथ्वीतिलकपुरे पृथ्वीराजाभिधो राजा राज्यं करोति । तत्र धर्मसिंहनामैकः क्षत्रियो वसति । स जिनधर्म रक्तोऽस्ति । तस्याभयसिंहधनसिंहाख्यौ द्वौ पुत्रावभूताम् । तयोर्मध्ये वृद्धोऽभयसिहो व्याघसिंहसदिभ्योऽपि भयं न प्राप्नोति. चेदाकाशाद्वजं पतेत्तथापि स आतडूं नो लभते । अन्यो धनसिंहाख्यो लघुभ्राता च रज्जुमपि दृष्ट्वा तं सर्प मनुते । एवं स मनस्यतीव भयभीतो वर्तते। ___ एकदा नगरसमीपे सिंहमागतं श्रुत्वा कोऽपि जनस्तन्मार्गे न याति, तदा प्रधानपुरुषैः राज्ञे निवेदितम्-" भो महाराज ! नगरसमीपे एकः सिंहः समागत्य स्थितोऽस्ति" । तदा राज्ञा सभामध्ये बीटकं करे गृहीत्वाधीकृतं, कथितं च"यः कोऽपि सिंह विदारयति तस्याहमिदं बीटकं यच्छामि" राज्ञेत्युक्ते कोऽपि तद्वीटकंन गृहणाति । तदाऽभयसिंहेन तद् ग्रहीतं, कथितं च-"अहमेकाक्येव सिंहं विदारयिष्यामि लोकानां च सुख करिष्यामि" इत्युक्त्वाऽभयसिंहो वने गत्वा बाणेन च सिंहं विदारितवान् । एवं तं सिंहं मृतं ज्ञात्वा स पश्चाद्वलित्वा राज्ञोऽ गत्वा प्रणामं कृत्वा स्थितः। राजाऽपि तुष्टः सन् तं वस्त्रालङ्कारादि दत्वा राजमान्यं विहितवान्।
अथैकदा कश्चिदेकः सामन्तो राज्ञ आज्ञा न मन्यते, मार्गे च लोकानामुपरि घाटी पाटयति, ग्रामांश्च लुण्टति । तं I वृत्तान्तं ज्ञात्वा राज्ञाऽभयसिंहस्य तज्जयाय बीटकं दत्तं, कथितं च-"भो अभयसिह । त्वं तत्र गत्वा तं दुष्टं च वध्वास्माकं पार्श्वे समानय ?" परं सामन्तेन तद्वचो न स्वीकृतम् । तेन पश्चादागत्याऽभयसिंहायोक्तं यत्स सामन्तो राज्ञ आज्ञा नाङ्गी
费端端密器鉴器端器樂器裝盛器端藥器錄器踐踏幾號密监张晓號
॥५३॥
For Private And Personal Use Only