________________
Shri Mahavir Jain Aradhana Kendra
श्री गौतमपृच्छा ।। ॐ ॥२९॥
**********
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ar shareer धारिणी तेन यज्ञदत्तकर्मकरेण सह लग्ना । ततश्च लोकमध्ये तस्या महत्यवहीलना जाता ।
अथ शिवकुमारस्तां विरुद्धां वार्तां लोकेभ्यो ज्ञात्वा निजमातर निवारयति । तदा तया दुराचारिण्या धारिण्या रात्रावेकान्ते यज्ञदत्तं प्रति पुत्रस्य तच्चेष्टितं ज्ञापितं कथितं च- " ममायं पुत्रो यथा सूर्यः कुमुदवनं, नदीप्रवाहो निजमृत्तिकातटं, दावानलो वनं च, तथाऽयं शिवकुमारस्त्वां मां च व्यापादयिष्यति, अतः केनाप्युपायेन त्वं शिवकुमारं मारय ? " तदा यज्ञदत्तः कथयति - " हे धारिणि ! अयं शिवकुमारो मम स्वामी तव च पुत्रः अतः कथं स व्यापाद्यते । एतत्प्रसादादेवाहं सुखी जातः, अतः कारणात्तस्य घातकरणोद्भवं जगन्निन्द्यं स्वामिद्रोद्दरूपं महापातकं कथं मया क्रियते ।" तदा धारिण्या पुनः प्रोक्तम्- " भो मूढ ! एन शिवकुमारं त्वं मारयैव, तन्मृत्युत एवावयोः सुखं भविष्यति” । तदा यज्ञदत्तेनापि तन्मारणमङ्गीकृतम् ।
अथैकदा धारिण्या पुत्रं प्रत्येवमुक्तम्- " भो पुत्र ! त्वा कस्यापि विश्वासो न कर्तव्यः कश्चिदपि त्वां हनिष्यति ।" पुत्रेणोक्तम् - " हे मातर् ! वरम्" । अथैकदा तया दुष्टया पुत्रं प्रति कथितम् - " हे पुत्र ! गोपालोऽस्मद्गोवर्गं समीचीनं न चारयति न च रक्षति, अतस्त्वं गोवर्ग चारय । अद्य त्वं करे शस्त्रं गृहीत्वा गोपालेन सह वनं याहि । यज्ञदत्तमपि सार्थे गृहीथाः । एवं मातुराज्ञयास शिवकुमारो गोपालसमीपे गत्वा सर्वं वृत्तान्तं तस्मै निवेदयित्वा कथयामास - " यत्त्वयाऽहमस्माक्षणीयः " । अथ गोपालेन तत्र द्वे शय्ये विहिते । तयोरुपरि सन्ध्यायामागत्य द्वावपि सुप्तौ । घटिकानन्तरं शिवकुमारो निजशय्यां वस्त्रेणाच्छाद्योत्थाय च गवां समूहमध्ये गत्वा स्थितः । तदनन्तरं यज्ञदत्तः प्रच्छन्नतया निजशय्याया उत्थाय
For Private And Personal Use Only
****
अष्टमप्रश्नः ॥
॥२९ ॥