________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
HERER
श्री गौतमपृच्छा ।। ॥२४॥
पश्चमपष्टप्रश्नो ।
तत् श्रुत्वा विस्मितेन राज्ञा तं श्रेष्टिनमाकार्य कथितम्-“भो श्रेष्टिन ! गतदिवसे त्वया निधिः कथं न गृहीतः ?" श्रेष्ठिनोक्तम्-" भो राजन् ! मम पा सन्तोषाख्योऽक्षयो निधिर्वर्तते । तस्य तद्वचनेन रञ्जितेन राज्ञा तं लोभरहितं विज्ञाय | नगरमध्ये महान् श्रेष्ठी संस्थापितः । एवं स सुखेन तिष्ठति । ___अथैकदा तत्र वने कश्चिदेकः श्रुतकेवली समवसृतः । तस्य वन्दनार्थ पद्मश्रेष्ठिसहितो राजा तत्र गतः । तं वन्दित्वा च तस्माद्धर्मः श्रुतः । अथ पद्मश्रेष्ठथुत्थाय गुरुं पृष्टवान्-" हे मुने । मम सन्तोषः केन कर्मणोत्पन्नः? तथैव मम भार्यापि काहलस्वरा कथं संजाल ?"
तदा गुरुस्तयोः पूर्वभव कथयति
अस्मिन्नेव नगरे केनचिन्मित्रेण निजचपलस्त्रीभयात्पूत्रमापृच्छय निजमित्रनागाभिधश्रेष्ठिनो गृहे तस्य पत्नी नागिलां साक्षीकृत्य निजस्वर्णस्थापनिका मुक्ता, स्वयं च धनमुपार्जयितुं देशान्तरं गतः। ततो धनमुपायं पश्चादागच्छन् स मार्गे चौरे मर्मारितः । तत्कलत्रपुत्राभ्यामिमा वार्ता श्रुत्वा महान् शोकः कृतः । ततः कियदिवसान्तरं ताभ्यां नागश्रेष्ठिसमीपे निजा स्वर्णस्थापनिका मागिता । तदा तेन श्रेष्ठिनोक्तम्-" कस्य समीपे मुक्ता ? केन गृहीता ? केन दत्ता ? कः साक्षी ? अहं किमपि न जानामि" । ताभ्यां राज्ञोग्रेस वृत्तान्तः कथितः। राजा तं श्रेष्ठिनमाकार्य कथितवान्-" भो श्रेष्ठिन् ! तव गृहे या एतयोः स्थापनिका मुक्तास्ति, तामेताभ्यां प्रति प्रयच्छ ।" तदा तेनोक्तम्-"न कापि मम गृहे तयोः स्थापनिका ।" तदा राज्ञा ताभ्यां प्रोक्तम्-"एतवृतान्तस्य कमपि साक्षिणं समानयतम् ?" तदा तत्पुत्रेणोक्तम्
音蒂蒂染染勞聯露柴晓晓晓晓张懿榮帶路帶路帶:聯染染際够亲密
***888888
॥२४॥
For Private And Personal Use Only