________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
भी गौतम पृच्छा ॥ ॥२३॥
पञ्चमपष्टप्रश्नौ ॥
略略染密染整张继聪晓晓染晓晓晓张晓晓晓晓染染器器密密器
सेवोग्राः, कषायाः, तीवकामता, पाखण्डिस्त्रीव्रतभङ्गः।)
तयोः कथानकमथ मोच्यते___ स्वस्तिमत्यां नगर्यां नयसारनामा राजा राज्यं करोति । तत्र पद्मनामा श्रेष्टी क्सति । स च सत्यवाक सन्तोषवानस्ति । तस्य भार्या पग्रिन्यभिधाना वर्तते । सा रूपवती परं मुखे रोगयुता काहलस्वरा असत्यवादिनी मायाविनी च वर्तते । श्रेष्ठिना तस्या रोगापनयनाथ बहव उपचाराः कृताः, परं तस्याः (रोगस्य) समाधिन जाता। तदा सा मायया निजभर्तारं कथयति यत्वं द्वितीयां त्रियं विवाहय । तदा श्रेष्टी वक्ति-" मम मनसि सन्तोषो वर्तते, अत इमां वाता वं मा बद"।
अथैकदा स श्रेष्ठी जीर्णोद्याने देहचिन्तार्थ गतः । तत्र मेघवृष्टया धूलीप्रक्षालनतो धननिधानमेकं प्रकटीभूतम् । श्रष्टिना तद् दृष्ट्वापि न गृहीतम् । तथैव तनिधानं तत्र मुक्त्वा स स्वगृहे समायातः ।
इतस्तत्र स्थितेन केनापि राजपुरुषेण तत्सर्व विलोक्य राजसभायामागत्य राजा विज्ञप्तः-“भो महाराज! पद्मश्रेष्ठी वनमध्ये निधानं दृष्ट्वा तत्रैव च तन्निधानं स्थापयित्वा स्वगृहे समागतोऽस्ति, निशायां च स तन्निधानं स्वगृहे समानयिध्यति" तदा राज्ञोक्तम्-“भो पुरुष ! त्वं तत्रैव वने याहि, सावधानतया च श्रेष्टिनः सर्व कृत्यं पश्य"।।
अथ स राजपुरुषः प्रच्छन्नं तत्र स्थितः, परं निशायामपि श्रेष्ठो तस्मिन् वने न समागतः । तस्यां दिश्यपि स न समायातः । अथ प्रातः पुनरपि तेन पुरुषेणागत्य राजा विज्ञा:-“भो स्वामिन् ! स श्रेष्ठी निशायामपि तत्र नागतः।"
器端游游樂聯聚聚能游樂器樂器帶路:榮染號器樂際:器樂樂器装
|
॥२३॥
For Private And Personal Use Only