________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगौतम
प्रथमप्रश्नः ॥
पृच्छा ॥
॥९॥
聯整器器染帶帶路器器蹤器器端發藥茶器密器器禁赛张继節
| (स्तः) अधुनापि तवायुवहु वर्तते, अतो यौवनवयसि किमर्थं तपः करोषि ? नानाशृङ्गाररसादियुतान् भोगान् सुक्ष्व । अधुनैवैवंविधं काञ्चनसदृशं शरीरं तपसा त्वया कथं शोष्यते ? एतन्न युक्तं, वृद्धत्वे त्वया चारित्रं ग्राह्यम्"।
तदा मुनिना प्रोक्तम्-“यदि ममायुर्दीर्घमस्ति, तदाहं बहुकालं चारित्रं पालयिष्यामि, धर्म च करिष्यामि, शरीरं | च मे तेन निर्मल भविष्यति, किं च यौवनवयो विना धर्मोऽपि न भवति, वृद्धत्वे किं स्यात् ? शरीरे १जर्जरीभूते सति क्रियातप आदि कमपि न भवति । धन्यं मम भाग्य, येन मे चास्त्रिोदयो जातः।"
एवं चतुर्भिः परीक्षाभिः परीक्षितोऽप्यसौ यदा न चलितस्तदा तौ देवौ हृष्टौ श्रीजिनशासनस्य प्रशंसां चक्रतुः। इति ताभ्यां जैनधर्मिमुनिपरीक्षा कृता॥
अथ शिवशासने वृद्धतापसपरीक्षार्थ तौ देवौ चलितौ । इतः पूर्वोक्तो जमदग्निनामा वृद्धतापसस्ताभ्यां दृष्टः । नगरलोका अपि तस्य पार्श्वे समागत्य तत्सेवां प्रत्यहं कुर्वन्ति । तस्य मस्तके महती जटा वर्तते । अथ तौ देवौ तस्य परीक्षार्थ चटक-* चटकीयुग्मरूपं विधाय तस्य कूर्चमध्ये आलयं कृत्वा स्थितौ । चटकेन मनुष्यभाषया चटिकां प्रति कथितम्- "हे प्रिये ! अहं हिमवंतपर्वते गत्वा द्रुतमेवागमिष्यामि।" तदा चटिकयोक्तम्-"चेत्तत्रैव त्वं कयापि चटिकया सहासक्तः सन् तिष्टेस्तदाहं किं कुर्वे ? अतो भवता न तत्र गन्तव्यम् । " तत् श्रुत्वा पुनश्चटकेनोक्तम्-"चेदहं पश्चान्नागच्छामि तर्हि
१ गात्रं संकुचितं गतिविगलिता दन्ताश्च नाशं गता, दृष्टिभ्रंश्यति नश्यति वर्धते च बधिरता वक्त्रं च लालायते । वाक्यं नाद्रियते च बान्धवजना भार्या न शुश्रूषते, हा ! हा ! ! कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते ॥ १॥
会柴榮帶幾號茶器茶器器螢號蒂器警器影帶柴柴幾蒸發器樂器
For Private And Personal Use Only