________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
गणधरसादेशतकम्।
श्रीआर्य| रक्षिताचार्यः॥
॥२३॥
HEARCACANBCN
XI मित्रः, अपिशब्दश्चार्थस्तस्य व्यवहितसम्बन्धः स च योजित एव, निजपट्टे स्थापितः-अध्यारोपितः प्रमाणीकृत इति यावत् ,
कुतः १ गुणिषु बहुमानात्-ज्ञानादिगुणपात्रेषु चित्तानुरागदाात् । महात्मनां हि गुणा एव गौरवस्थानं न चेश्वरपुत्रस्वजनमित्रादयो गुणविकला अपि, उक्तश्च" गुणा गौरवमायान्ति, न महत्योऽपि सम्पदः । पूर्णेन्दुः किं तथा वन्यो,-निष्कलको यथा कृशः॥१॥" ॥ ४६॥
कीदृशमार्यरक्षितम् ? रक्षितचरित्ररत्न-सम्यक्प्रतिपालितचारित्रमणिं, प्रकटितजिनप्रवचन-प्रभावितभगवच्छासनं, प्रशान्तमनसम्-उपशान्तचेतोव्यापारम् , अलक्षितम्-अलब्धमध्यं जलधिगम्भीरमित्यर्थः, वन्दे आर्यरक्षितमिति गाथादशकार्थः ॥ ३८-४७॥
पंचसया चुलसीया (५८४ ), तइया सिद्धिं गयस्स वीरस्स । अब्बद्धि[वि]आण दिट्ठी दसपुरनयरे समुप्पन्ना ॥१॥"
शेषनिह्ववपटूस्वरूपमावश्यकवृत्तेरवसेयमिति ॥ अत्र श्रीआर्यरक्षिताचार्याणां द्वाविंशतिवर्षाणि २२ गृहस्थपर्याय:, चत्वारिंशद्वर्षाणि ४० व्रतपर्याय:, त्रयोदश वर्णाणि १३ यौगप्राधान्यं, पञ्चसप्ततिवर्षाणि ७५ माससप्तकं ७ दिनसप्तकं ७ च सर्वायुरिति ॥ अथ कांश्चिद्भगवतो युगप्रवरागमान् सामान्यध्वनिनैव स्मृतिमानीयाऽऽत्मनः शरणीकुर्वन् गाथायुगलमाह
तयणु जुगपवरगुणिणो, जाया जायाण जे सिरोमणिणो । सन्नाण-चरणगुणरयणजलहिणो पत्तसुयनिहिणो ॥४८॥
॥२३॥
For Private and Personal Use Only