________________
Shri Mahavir Jain Aradhana Kendra
गणधरसा
दशतकम् । ॥ ११ ॥
www.kobatirth.org
यदि पूज्यपादाः जानते तदा कथयन्तु क्व सोऽस्तीति, 'यदि कथञ्चिनिजपितरं पश्यामि तदा तत्समीपे प्रव्रजामी' ति भणिते सूरिराह - ' आयुष्मन् ! तव पिता मत्सुहृत्, शरीरेणाप्यभिन्नः त्वं प्रव्रज ममान्तिके न कोऽपि भेदः पितृपितृव्ययोः ' इति भणित्वा दीक्षितः । तत उपयोगे षण्मासायुषं विज्ञाय - अहो ! अल्पायुरयं कथं श्रुतधरो भविष्यति ? " अपश्चिमो दशपूर्वी, श्रुतसारं समुद्धरेत् । चतुर्दशपूर्वधरः पुनः केनापि हेतुना ॥ १ ॥ " मणकप्रतिबोधकारणेऽस्मिन्नुपस्थिते तदुद्धराम्यहमपि, इति विचिन्त्य सिद्धान्तसारमुद्धृत्य - " कृतं विकालवेलायां, दशाध्ययन गर्भितम् । 'दशवैकालिक 'मिति, नाम्ना शास्त्रं बभूव तत् ॥ १ ॥ " मणकः पाठितः, षण्मासान्ते सूरिकारिताराधनादिको दिवं गतः । तस्मिन् स्वर्ग गते सूरिमजस्रमश्रुपात कुर्वाणं वीक्ष्य यशोभद्रप्रमुख शिष्यवृन्देन परिहृतान्नपानेनैकान्तपिण्डितेन अत्यन्तदुःखितेन स्वगुरुर्विज्ञप्तो यथा
" तुम्हारिसा वि वरपहु !, मोहपिसाएण जइ छलिअंति । ता धीर धीर ! भण धीर धीरिमा कत्थ संभूया १ ॥ १ ॥ " ततः सूरिस्तजन्ममरणावधिसम्बन्धमुवाच शिष्येभ्यो मोहराजमाहात्म्यं च, यथा
"कृच्छ्राद्रह्मेन्द्र भूतेरजनि परिगतः स्थूलभद्रो विकारं, मुञ्चत्यश्रूण्यजस्रं मणकमृतिविधौ पश्य शय्यम्भवोऽपि ।
षण्मासान् स्कन्धदेशे शबमवहदसौ हन्त ! रामोऽपि यस्मा, -दित्थं यश्चित्तभूतो भवति भुवि नमो मोहराजाय तस्मै ॥१॥” शिष्यैरुक्तं यदि पूज्यपादा अस्माकमज्ञापयिष्यन् - ' मणकोऽस्माकं तनूजः ' तदा वयं भवदिव तत्पर्युपासनामकरिष्यामहि । सूरिभिरुक्तं-ज्ञातास्मत्पुत्रसम्बन्धा यूयं मणकान्नोपास्तिं कारयिष्यत, स कथं विनोपास्ति निस्तारितः स्यादिति । अथाल्पायुषः कृते कृतं दशवैकालिकसूत्रं संवृणोमीति भणमाणः सूरि श्रीयशोभद्रादिभिः ससङ्घैर्विज्ञप्तः-' अतः परमल्पमेधसो
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशय्यंभवाचार्यः
मुनिमनकथ ॥
॥ ११ ॥