________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
म्भवेनाकर्ण्य चिन्तितम् -'अहो ! अमी उपशमप्रधाना महात्मानो न मृषावादिनः, तत्वे संदेग्धि मे मनः' इति विचिन्त्यागत्योपाध्यायः पृष्टः । सोऽपि 'वेदास्तत्त्वम्' इत्युक्ते शय्यम्भवोऽभ्यधात्-प्रतारयसि दक्षिणालोमेन, वीतरागा मुनयो न वदन्ति वितथं, न गुरुस्त्वं यथावस्थितमाख्याहि तच्त्वं नो चेच्छेत्स्यामि ते शिरः " न हत्या दुष्टनिग्रहे " इति भणश्च कर्षासिं कोशात् । उपाध्यायोsपि दध्यौ - मिमारयिषुरेष मां तत्त्वकथनसमयः, यतः - " कथ्यं यथातथं तवं शिरच्छेदे हि नान्यथा । " इति विचिन्त्याचक्षावुपाध्यायः - ' अमुष्य यूपस्याधः प्रतिमाऽर्हतस्तत्प्रभावान्निर्विघ्नं यज्ञकर्म्म ' इति श्रुत्वा, दवा च स्वर्णभाजनादि यज्ञस्योपकरणान्युपाध्यायाय, स्वयं तु महर्षी गवेषयन् तत्पदैरेव गतः प्रभवस्वामिपादान्ते, वन्दित्वा क्ति- ब्रूत मोक्षकारणम् । गुरुभिरपि साधुधर्म्म श्रावितः प्रव्राजितश्च क्रमेण गुरुशुश्रूषां कुर्वाणि जातश्चतुर्दशपूर्वी ।
अथ - " श्रुतज्ञानादिना तुल्यं, रूपान्तरमिवात्मना । प्रभवस्तं पदे न्यस्य, परलोकमसाधयत् ॥ १ ॥ "
अथ यदा शय्यम्भव दीक्षामग्रहीत्तदा लोकस्तद्भार्यामपृच्छत् किं तवोदरे गर्भसंभावनाऽस्ति ?, साऽवदत् मनागिति । क्रमेण सुते प्रसूते प्राकृतभाषया 'मणय' इति भणनात् 'मणक' इति नामाभूत् । स चान्यदा मातरमविधवावेषेण पश्यन् पप्रच्छ - ' क्क मे पिता ?, ' मात्रोक्तम्- ' त्वय्युदरस्थे श्वेताम्बरोऽभूत् मयैव त्वं पालित इयन्ति वर्षाणि ' इति वचो निशम्य पितृदर्शनोत्कः स्वमातरं वञ्चयित्वा निर्गतो गेहात् । तदा च शय्यम्भवाचार्यश्वम्पायां विहरति स्म । मणकोऽपि पुण्याकृष्ट इव तत्राययौ, कायचिन्तादिना सूरिः पुरीपरिसरे व्रजन् बालं ददर्श, सोऽपि सूरिं संमुखायातम् । बाल पप्रच्छ सूरि :कस्त्वं कस्य पुत्रः कुतोऽत्रायातः १ तेनापि कथितम् - राजगृहात् सूनुः शय्यम्भवस्य पितृगवेषणार्थं पुरात्पुरं बम्भ्रमीमि,
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir