________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इत्याह-व्रतार्थिगृहिजम्बूनामवचनात् , व्रतार्थी प्रातःक्षण एव दीक्षां जिघृक्षुर्यो जम्बूनामा तस्य प्रबोधकं यद्वचनंबाक्यं तस्मात् । पुनः किं विशिष्टम् ? पालितं युगप्रवरस्य जम्बुनाम्नः स्वगुरोः पदं येन स तथा तमिति गाथार्थः ।। ११॥
"आत्तं पश्चाशदब्देन, सुधर्मस्वामिना व्रतम् । त्रिंशदब्दीमथाकारि, शुश्रूषाचारमर्हतः ॥ १॥ मोक्षं गते महावीरे, सुधा गणभृद्वरः । छद्मस्थो द्वादशाब्दानि, तस्थौ तीर्थ प्रवर्तयन् ॥ २॥ ततश्च द्वानव(९२)त्यब्दी,-प्रान्ते संप्राप्तकेवलः । अष्टाब्दी विजहारोा, भव्यसत्त्वान् प्रबोधयन् ॥ ३ ॥ प्राप्ते निर्वाणसमये, पूर्णवर्षशतायुषा । सुधर्मस्वामिनाऽस्थापि, जम्बूस्वामी गणाधिपः ॥४॥ तप्यमानस्तपस्तीव्र, जम्बूखाम्यपि केवलम् । आसाद्य सदयो भव्य-भविकान् प्रत्यबूबुधत् ॥ ५॥
श्रीवीरमोक्षगमनादपि हायनानि, चत्वारि षष्ठिमपि च व्यतिगम्य जम्बूः। .
कात्यायनं प्रभवमात्मपदे निवेश्य, कर्मक्षयेण पदमव्ययमाससाद ॥६॥" एतत्कथानकषोडशकानुस्मरणार्थ चेमे गाथे
"करिसग १ हथिकडेवर २, वानर ३ इंगालदाहग ४ सियाले ५। विजाहरे ६ य धमए ७, सिलाजऊ ८ दोय थेरीओ ९॥१॥ आसे १० गामउडसुए ११, वडवा १२ तह चेव मुद्धसउणे १३ य । तिमि अ मित्ता १४ माहणसुआ १५ य ललिअंगए १६ चरमे ॥२॥"
For Private and Personal Use Only