________________
Shri Mahavir Jain Aradhana Kendra
गणधर
सार्द्ध
शतकम् ।
।। ५८ ।।
www.kobatirth.org
निष्पच्चवायचरणा, कज्जं साहिति जे उ मुत्तिकरं । मन्नंति कयं तं जं, कयंतसिद्धं तु स -परहिअं ॥११७॥
व्याख्या—' जे उ ' त्ति, तुशब्दश्चार्थस्ततो ये च साधयन्ति = निष्पादयन्ति, किम् ? कार्य = व्यापारं निर्वाणसाधकं प्रतिलेखनाप्रमार्जनाभिक्षाचर्यापथिकाऽऽलोक भोजनादिदशविधचक्रवालसामाचारीप्रभृतिकमित्यर्थः । कीदृशाः सन्तः १ निष्प्रत्यवायं=निष्प्रायश्चित्तं=निरतिचारं चरणं चारित्रं येषां ते तथाविधाः सन्तः । तथा ये च मन्यन्ते=जानते, किम् ? कृतं, किं तत् ? तपः = कष्टक्रियाप्रासुकोदकादिकं यत् कि ? मित्याह - कृतान्तसिद्धं तु= आगमनिष्पन्नमेव तुशब्दस्यैवकारार्थत्वात् श्रुतोक्तताविकलस्य समस्तस्याप्यजागलस्तनकल्पत्वात् । कृतान्तसिद्धक्रियाविधानं । पुनः कीदृशम् १ यतः स्वपरहितम् = आत्मनः परेषां 'च सर्वथा संसारदुस्तरापारपारोत्तारकारकमित्यर्थ इति गाथार्थः ॥ ११७ ॥
तथा
डिसोरण पट्टा, चत्ता अणुसोयगामिणी वट्टी | जणजत्ताए मुक्का, मय-मच्छर-मोहओ चुक्का ॥ ११८ ॥
व्याख्या—— ये च ' इत्यत्रापि संबध्यते, ये च, कीदृशाः १ प्रवृत्ताः = प्रस्थिताः केन : मार्गेणेति शेषः, किं रूपेण ? प्रतिश्रोतसा= संसारनिस्तारकेण गुरुकुलवासकुग्रहनिर्वास - संयमश्रीविलासशुद्धतपो - नुपहासो द्यतविहार- शुभभावनाप्रकार- परोपकारसारत्वादिलक्षणेनेत्यर्थः । तथा ' ये च' इत्यर्थवशाद्विभक्तिपरिणाम इति यैश्व त्यक्तं मुक्तं ' वट्टि 'त्ति प्राकृतत्वात्स्त्रीलिङ्गनिर्देशः, वर्त्म=मार्गः कीदृशम् ? अनुश्रोतोगामि-संसारसमुद्रपातकम् “अणुसोओ संसारो, पडिसोओ तस्स उत्तारो "
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
श्रीजिनवल्लभ
सूरीणां
सप्रपंच
स्तुतिगर्भ
चरित्रादि ॥
।। ५८ ।।