________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सुरतं जनयति = उत्पादयति जिनवरगृहेऽपि = तीर्थकृद्भवनेऽपि । अपिशब्दो गहीं द्योतयति यथा - अत्यन्तगर्हितमेतद् यद् वीतरागमन्दिरेऽपि सुरताज्ञां जनयति । ' सा रजनी 'ति, 'सा' इत्यनेनैव पूर्वोपात्तायां रात्रावुपलब्धायां पुना रजनी ग्रहणं तस्या विशेषतः सदोषत्वख्यापनार्थम्, यमकानुरोधेन वा रजोनिकरस्य = पातकव्रातस्य हेतु: कारणं कथं केन प्रकारेण नीरजसां=अहः कणेनाप्यस्पृष्टमनसां पुंसां मता = अभिमता संगता यात्रास्त्रात्रप्रतिष्ठाबलिनन्दिविधानादौ स्यात् १ न कथञ्चिदित्यर्थः । तथैतावता स्त्रीप्रवेश निषेधोऽपि 'नो जत्थुस्सुत्तजणक्कमोत्थि ' इति पूर्वगाथोद्दिष्टः सोऽपि समर्थितः । आगमोऽप्यत्रात्समवसरणे —
"अजाण साविआण य, अकालचारितदोसभावाओ । ओसरणम्मि न गमणं, दिवसतिजा मे निसि कहं ता १ ॥१॥ इति स्त्रीणां रात्रौ जिनसदनान्तः प्रवेश निषेधकद्वर्त्तते । अत्र च साधुप्रवेशनिषेधस्थापनानन्तरं स्त्रीप्रवेश निषेधव्यव स्थापनं प्राक् स्त्रीप्रवेशस्य सकलानर्थमूलत्वसूचनार्थम् ॥ ११२ ॥
अथ रात्रौ जिनगृहान्तः साधुप्रवेशनिषेधमुद्दिश्याह
"
साहू सयणासणभोयणाइआसायणं च कुणमाणो । देवह-रएण लिप्पइ, देवहरे जमिह निवसंतो । ११३ |
व्याख्या -' साहू सयणासणभोयणाई ' इत्यादि । साधुः =यतिः, शयनं = स्वापम् आसनम् = अवस्थानं, भोजनम् = आहारम् आदिशब्दान्मूत्रपुरीषादिरूपम् आशातनां भगवदवज्ञाजनितज्ञानादिलाभभ्रंशरूपां च शब्दाददेवद्रव्य विहितमठादिसाक्षाद्देवद्रव्योपभोगपरिग्रहः, कुर्वाणः - विदधानः कस्याशातनां कुर्वाणः १ तत्राह - ' देवह 'ति प्राकृतापभ्रंशलक्षणास्त्र षष्ठी
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir