SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir गणधर श्री साई शतकम् ।। न्द्रियमारक! प्रच्छन्नपापकूप ! कुरूप! किमित्यमदूषणानुदोषयसि लोकमध्ये ? किं तूष्णीभूय न तिष्ठसि ? तव तत्करिष्यामो यन्न हदमानस्यापि विस्मरति' इत्यादिदुर्वचनान्येव शराःबाणास्तेभ्यो रक्षा रक्षणं येन तत्तादृशम् , इत्येतदपि फलक- * जिनवल्लभविशेषणम् । ततः समुत्क्षिप्य-उल्लास्य, किम् ? 'सिद्धतमसिं 'ति मकारोऽलाक्षणिकस्ततः सिद्धान्त एव=श्रुतमेवासि= | सूरीणां खड्गस्तं सिद्धान्तासिं, 'त 'मिति लोकोत्तरं यः, कीदृशः ? त्रिभुवनेत्रिजगति सिद्धः-प्रसिद्धः । 'जंत 'मिति नपुंसक 18 सप्रपंचनिर्देशः प्राकृतत्वादित्यर्थः॥ १०१॥ 'निवाणठाण'-मित्यादि । सद्धर्म, सच्छब्दः सत्यार्थः " सत्ये साधौ विद्य स्तुतिगर्भमाने प्रशस्तेऽभ्यर्हिते च सत्" इति ( अमर नानार्थ० ८३ ) वचनात्सत्यप्रधानः शोभनधर्मः पुण्यं सद्धर्मश्चारित्रधर्ममित्यर्थः । ततः परम्परितरूपकेण सद्धर्म एव सद्धर्मः शोभनधर्मस्तं सद्धर्म विधिना सैद्धान्तिकेन धृत्वा गृहीत्वा । सद्धर्म चरित्रादि। स्यैव विशेषणान्याह-निवाणठाण'-मिति, निर्वाण मोक्षस्तल्लक्षणं स्थानं पदं चारित्रधर्मस्य जीवन्मुक्तत्वप्रदत्वात्तदुक्तम् “निर्जित्तमदमदनानां, वाकायमनोविकाररहितानाम् । विनिवृत्तपराशाना,-मिहैव मोक्षः सुविहितानाम् ।। १॥" 'अणहं 'ति, न विद्यते अघं पापं यस्मात्तमनघम् । 'सगुणं 'ति सह गुणैः नियमशमदमौचित्यादिभिर्वर्त्तते यस्तं सगुणम् । अविषम-सरलम् अक्षेपेणैव । मोक्षप्रापकत्वात् । परलोकस्य भवान्तरस्य साधक-निष्पादक, चारित्रेण हि परलोकः साध्यते न त्वैहलौकिक राज्यादिकं किश्चिदपीक्ष्यते । मोक्षस्य-परमपदस्य कारकं विधायकम् ? विस्फुरितम् ऊर्जितं समुज्वलमित्यर्थः। धनुःपक्षे च-निश्चितं बाणस्य स्थानं स्थितिप्रदत्वात् , अनघ-सलक्षणं न तु कीटकादिजग्धं, सगुणं १ विना प्रेरणयैवेत्यर्थः । GADGAONOCOCCE For Private and Personal Use Only
SR No.020335
Book TitleGandhar Sarddhashatakam
Original Sutra AuthorN/A
AuthorJinduttsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1944
Total Pages195
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy