________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
" गडरि - पभावपडिएहिं कुगुरुनडिएहिं पारद्धो
विहिविसयपारतंतेहिं-बजिओ जोइओऽविवेएणं । निव्बुहपहपडिकूलो, बहुजणगणसेविओ सुकरो
॥ १ ॥
For Private and Personal Use Only
॥ २ ॥
11 3 11 "
अवियारिअरमणिओ, गद्दहलिंड व बाहिरे महो । अंतो तुसभुसभरिओ, पुवावरवयण विहडणओ ततश्चात्र मार्गशब्देन शुद्धमार्गः, उन्मार्गशब्देनाशुद्धमार्गे ज्ञेयस्ततो मार्ग श्रोन्मार्गश्वेति द्वन्द्वस्तौ मोहप्राचुर्यान्नैव ज्ञायेते = नैवं बुध्येते । ननु किं सर्वथैव मार्गोन्मार्गयोरविज्ञानं न, इत्याह- 'विरलो जणोत्थि मग्गण्णू' त्ति विरल :- स्वल्पो यस्तथाविधमोहान्धकारप्रसराऽदूषितनैर्मल्याऽरूपित सातिरेक विवेकचूर्णाञ्जितदृष्टिर्जनः सोऽस्ति = विद्यते कीदृश: ? मार्गज्ञः =पूर्वोदितलक्षणशुद्धमार्गवित् । मार्गज्ञता चात्र श्रद्धानक्रिययोरप्युपलक्षणं, तेन यो मार्ग जानाति श्रद्धत्ते सम्यगनुतिष्ठति च स स्तोक इत्यर्थः । यद्येवं तहिं तस्य स्तोकस्यापि मार्गविदो जनस्य सुविहितसाध्वादिलक्षणस्य वचसि भूयांसो जना लगिष्यन्ति ? नेत्याह-' थोवा तदुत्तमग्गे लग्गति तेन = विरला [ल ] मार्गज्ञेन उक्तः = अभिहितो योऽसौ मार्गस्तदुक्तमार्गस्तस्मिन् तदुक्तमार्गे स्तोका लगति - सजन्ति । भूयस्तरास्तत्र किमिति न लगन्ति ? इत्याह-न विश्वसन्ति न विश्रम्भं यान्ति घनाः भूयिष्ठा गुरुकर्मतया अद्यापि गडरिकाप्रवाहनिमनास्ते-' अहो ! ठका एते मस्तके वासक्षेपेण सकलमपि लोकं ठकयन्ति तस्मान्नैतत्सामीप्येनापि संचरणीयमिति, प्रलपन्तस्तेभ्यो दूरतरं पलायन्त इत्यर्थः । अपरपक्षे च घोरान्धकारावृतत्वेन नैव ज्ञायते मार्ग उन्मार्गों वा । अत्र पक्षे 'एव' शब्दो बहुजनापेक्षया अवधारणार्थः । विरलश्च कश्चिद्गोपालौष्ट्रिका दिर्जनोऽस्ति मार्गज्ञः,
• एवौपम्ये परिभवे, ईषदर्थेऽवधारणे इति हेमा नेकार्थ० अव्ययाधिकारे १८१६ । २ अरूषिता = रजःकरणरहिता ।
Acharya Shri Kailassagarsuri Gyanmandir