________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
इत्यादिगुणकलापालङ्कृतदेहोऽत्यन्तं दुर्लभः सुगुरुस्तदुक्तम् -
" तित्थयर गणहरो केवली य पत्तेयबुद्ध पुवधरो । पंचविहायारधरो, दुल्लंभो इत्थ आयरिओ ॥ १ ॥ मग्गंता वि हु धम्मं, संसारसमुदभीरुआ जीवा । पासंडिअमुहपडिआ, भमंति पुणरुत्तसंसारे || २ || धम्मायरिण विणा, अलहंता सिद्धिसाहणोवायं । अस्य व तुंबलग्गा, भमंति संसारचकम्मि || ३ || जह कायमज्झडिअं, वेरूलिअं कोइ जाणओ लेह । सारिच्छयाइनडिओ, अविजं कार्य चिअ गहेइ ॥ ४ ॥
एवं धम्मायरिअं अहमारिआण मज्झ आवडिअं। गिव्हंति लहुयकम्मा, सम्मन्नाणेण जइ विरला || ५ || " एवं तावद् गृहीतकृपाज्ञाक्रपाणान् पुरस्कृत्य सुगुरुविस्तीर्णस्फरकान् पार्श्वस्थाः = कुयतयस्त एव चारित्रधनापहारित्वेन चौरा : = मलिम्लुचाः पार्श्वस्थचौराः तेषां विसरः = समूहः पार्श्वस्थचौरविसरो न मुष्णाति =न लुण्टति यतः 'वियारमीओ'ति, पार्श्वस्थपक्षे विचारः = सिद्धान्तोक्तहेतुयुक्तिदृष्टान्त सन्नद्धधर्म्मवादस्तस्माद्भीत:- त्रस्तो विचारमीत इत्यर्थः । लौकिकस्तोकजागरूकपक्षे च ये केचिद् गृहीतखगाः सुष्ठु =अतिशयेन गुरुः - विशालो यः स्फरकस्तेन युक्तान् पार्श्वस्थोऽपि = प्रत्यासन्नवपि चौरविसरः = तस्करनिकरो न मुष्णाति । कीदृशः सन् १ विदारणं विदारः = खङ्गप्रहारैर्भेदनं तस्माद्भीत इत्यर्थः ।। ९२ ।। ' मग्गुम्मग्गा नअंति नेये 'त्यादि, मार्गों हि द्विधा द्रव्यमार्गों भावमार्गश्च तत्र द्रव्यमार्गे देशान्तरप्रापणरूपः, भावमार्गश्च ज्ञानादिरूपः । सोऽपि द्विधा शुद्धोऽशुद्धश्च । तत्र शुद्धो यत्र विधिचैत्यपूजनम् - अविधिचैत्यवर्जनं, शुभगुरूणामाज्ञाया अखण्डनं, शुभगुरूणां पुरतः प्रत्यहमस्खलितममेलितं द्वानवतिस्थानकवि
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir